2023-03-13 16:00:29 by Pathan Vali Khan
This page has been fully proofread once and needs a second look.
कस्मिकप्राकट्यमिति धियेति भावः । यो हरः । एवं च स्वत एव वसनहरणादिना
तत्कार्यकारित्वं ध्वन्यते । तेन करकलितौ । करोतीति कर इति स्वतस्तत्कार्यकारि-
त्वेऽपि हरप्रहितत्वेनाकलने दार्ढ्यं द्योयते । हिमगिरितनयायाः । एवं च शैत्यसहितक-
ठिनत्वं द्योत्यते । तेन चावश्यकरकलनयोग्यत्वम् । अत एव हरोऽतिस्मेर इत्यपि यु-
क्तम् । स्तनौ जयतः । भ्रमवतान्येनाविष्कृतत्वेऽप्यन्यस्य सुखसंपादनादिति भावः ।
यद्वा गजाननशिखिवाहनयोः सकलविघ्ननिवारकत्वकार्यमात्रपुरस्करणीयत्वात्तारकव-
धद्वारकविश्वसंतोषपोषकत्वनिदानस्तन्यवत्त्वादिति भावः । यद्वा स्मरविरोधिनोऽप्या-
नन्दजनकत्वादिति भावः ॥
कण्ठोचितोऽपि हुंकृतिमात्रनिरस्तः पदान्तिके पतितः ।
यस्याश्चन्द्रशिखः स्मरभल्लनिभो जयति सा चण्डी ॥ २१ ॥
कण्ठोचित इति । आलिङ्गनार्होऽपि । पक्षेऽर्धचन्द्राकारतया कण्ठलक्ष्ययोग्यो-
ऽपि । हुंकृतिमात्रेण, न तु करतर्जनादिना । पक्षे बाणादिना । निरस्तः । अत एव
यस्याः पदान्तिके । प्रणामार्थमिति भावः । पक्षे वेगवशादिति भावः । स्मरशरसदृ-
शः । अर्धचन्द्रशेखरत्वादिति भावः । स्मरभल्लनिभ इत्यनेन मानापनोदनसमर्थत्वं द्यो-
त्यते । यद्वा स्मरभल्लस्य निभं छद्म । 'निभं छद्मसदृक्षयोः' इत्यभिधानात् । एवं च
रूपान्तरसंपादनाद्भीत्यतिशयो द्योत्यते । चन्द्रशिखः शंभुः पतितः । चन्द्रशिख इत्यने-
नोद्दीपकचन्द्रस्यापि मानापनोदकत्वान्माने बाहुल्यमभिव्यज्यते । सा चण्डी जयति ।
मदनार्धनाराचादीनामप्यगणनादिति भावः ॥
देवेऽर्पितवरणत्रजि बहुमाये वहति कैटभीरूपम् ।
जयति सुरासुरहसिता लज्जाजिह्मेक्षणा लक्ष्मीः ॥ २२ ॥
देव इति । अर्पितवरणस्रजि । एवं च सङ्गाद्यभावेन तात्त्विकरूपापरिचयो द्योत्यते ।
बहुमाये । एवं च रूपान्तरग्रहणसामर्थ्यमभिव्यज्यते । देवे विष्णौ । देवपदेन क्रीडारसि-
कतयानेकविधदेहधारणनिपुणत्वमावेद्यते । कैटभीरूपम् । दैत्यवञ्चनायेति भावः । व-
हति सति । एवं च प्रात्यक्षिकत्वेनापलापानर्हत्वं व्यज्यते । सुरासुरहसिता । कथं स-
र्वान्सुरान्विहायायमीदृशो वृत इति । अत एव लज्जाकुटिलेक्षणा । किमियं कामिन्येव
पुरुषभ्रमान्मया वृतेति धियेति भावः । लक्ष्मीर्जयति । सर्वोपहासवत्त्वेऽप्यधैर्याकरणा-
दिति भावः ॥
तानसुरानपि हरिमपि तं वन्दे कपटकैटभीरूपम् ।
यैर्यद्बिम्बाघरमधुलुब्धैः पीयूषमपि मुमुचे ॥ २३ ॥
तानिति । तान्सकपटत्वेन प्रसिद्धानसुरानपि । सुष्ठु रान्ति ते सुरास्तद्भिन्नान्सर्वदा-
समीचीनग्राहकानपि वन्दे । पीयूषादप्यधिकमेतस्या अधरामृतमिति तात्त्विकज्ञानेन