This page has not been fully proofread.

मध्विति । श्रीकृष्णवदनविनिहिता या वंशी तद्रन्ध्रानुसारिणः शब्दा मदनस्य न-
लिकाबाणा इव मम मनः । हन्त खेदे । हरन्ति । एवं च वेणुध्वनिं श्रुत्वावस्थातुं न
शक्यते, अतो द्रुतं प्रयाहीति ध्वन्यते ॥
 
कयोश्चिन्मित्रयोरन्यतरं संगमयितुं दूती नायिकां वक्ति–-
 
महतोः सुवृत्तयोः सखि हृदयग्रहयोग्ययोः समुच्छ्रितयोः ।
सज्जनयोः स्तनयोरिव निरन्तरं संगतं भवति ॥ ४३८ ॥
 
महतोरिति । श्रेष्ठयोः । एवं च परच्छिद्रप्रेक्षणानर्हत्वं ध्वन्यते । पक्षे महापरिमा-
णशालिनोः । समीचीनाचरणयोः । एवं च लौकिकदुष्टशङ्काशून्यत्वमावेद्यते । पक्षे समी-
चीनवर्तुलयोः । हे सखि, हृदयग्रहयोग्ययोः । चित्ते स्थापयितुं योग्ययोः । एवं चाति-
प्रियत्वमावेद्यते । यद्वालिङ्गनयोग्ययोरित्यर्थः । पक्षे वक्षःस्थितिशालिनोः । समुच्छ्रितयोः ।
एवं च नवीनयौवनभाग्योदयादिशालित्वं द्योत्यते । पक्ष नवीनोदयवत्त्वम् । सज्जनयोः
स्तनयोरिव संगतं निरन्तरं भवति । एवं चोभयोरपि समानगुणशीलतया न्यूनाधिकभा-
वविरहेणोभयोर्मध्ये यं प्रत्यनुरागः स एवानुगृह्यतामिति ध्वन्यते । यद्वा कयोश्चित्सहचर-
योर्मध्येऽन्यतरभीत्यान्यतरावलोकनमसम्यगिति मन्वानां नायिकां दूती वक्ति – एतयो-
रतितरां धीमत्त्वेन परस्परानन्दसंवर्धकतया नान्यतराशङ्का त्वया विधेयेत्या वेद्यते । स्तन-
योरिवेत्यनेनैतत्संगतिविघटनमसंभवीति ध्वन्यते । कथमेतयोरतितरां संगतिरिति वादिनीं
कांचित्काचिद्वक्ति । समानगुणशीलत्वादिति भाव इति वा । अथवा समानगुणशीला-
दिशालिनोः साहजिकी संगतिरिति कांचित्काचिद्वक्ति ॥
 
कश्चित् 'एतादृशं नाचरणीयम्' इत्युपदेशकर्तारं सखायं वक्ति--
 
मम वारितस्य बहुभिर्भूयो भूयः स्वयं च भावयतः ।
जातो दिशीव तस्यां सखे न विनिवर्तते मोहः ॥ ४३९ ॥
 
ममेति । बहुभिः । विवेकिभिरिति भावः । सुहृद्भिरिति वा । निवारितस्य । नैवं
विधेयमिति भावः । स्वयं च मुहुर्मुहुविचारयतो मम दिशीव तस्यां जातो मोहः प्रीतिर्भ-
मच हे सखे, नापगच्छति । एवं च यथा संजातदिग्भ्रमस्य न केनापि निवृत्तिः कर्तुं
शक्या, तथैतस्यां ममोत्पन्नानुरागस्य । अतस्त्वदुपदेशोऽनर्थकः । अत एतत्करणाद्विरमेति
ध्वन्यते ॥
 
पराङ्गनातिलम्पटतयापकीर्त्या स्वजनपरित्यक्तं कंचन कश्चिदन्योक्त्या वक्ति--
 
मग्नोऽसि नर्मदाया रसे हृतो वीचिलोचनक्षेपैः ।
यद्यच्यसे तरुवर भ्रष्टो भ्रंशोऽपि ते श्लाध्यः ॥ ४४० ॥
 
मग्नोऽसीति । हे तरुश्रेष्ठ । एवं च नीचस्यैतादृशाचरणे न किंचिदसम्यगिति
ध्वन्यते । नर्मदाया नद्याः । नर्म ददातीति व्युत्पत्त्या कलाकलापवत्त्वमावेद्यते नायिका-
याम् । तरङ्गरूपकटाक्षैः, अथ च वीचीतुल्या ये लोचनक्षेपास्तैर्हतो रसे जले शृङ्गारादौ