This page has not been fully proofread.

१५०
 
काव्यमाला ।
 
मृगेति । अटवी कस्तूरिकोत्पत्तिस्थानम् । कुङ्कुममपि कृषकवाटिका वहति । एवं च

मृगमदकेसरयोर्वनवासशालितया न नागरिकजनसुखदत्वमिति भावः । हे वाराङ्गने, एका

भवती उत्कृष्टं पुरसंबन्धिलोकसर्वस्वम् । सुखविशेषप्रदत्वादिति भावः । यद्वा कस्तूरीकु

ङ्कमयोरन्यत्रापि सत्त्वेन साधारणतया, वारविलासिन्यास्तु नगरमात्रवसतिशालितयासा-

धारण्येन नागरिकात्यन्तस्पृहणीयत्वमिति भावः ॥
 

 
वसन्तसमयेषूद्दीपनोद्रेकात्तूष्णीमवस्थातुं
 
न शक्यत इति काचित्कांचिद्वक्ति
--
 
मधुदिवसेषु भ्राम्यन्यथा यथा विशति मानसं भ्रमरः ।
 

सखि लोहकण्टकनिभस्तथा तथा मदनविशिखोऽपि ॥ ४३४ ॥

 
मध्विति । हे सखि, वसन्तसमयेषु भ्राम्यन्सन् । मधुपदेन दुष्परिहरत्वं ध्वन्यते ।

यथा यथा चित्तं लोहकण्टकसदृशो भ्रमरो विशति तथा तथा मदनबाणोऽपि । एवं च

केनचित्सह मां योजयेति ध्वन्यते । यद्वेतस्ततो मदर्थमेव परिभ्रमन्भ्रमर इव भ्रमरः । सा-

रग्राहकत्वेनातिचतुरत्वादिति भावः । नायको यथा यथा मनसि समायाति तथा तथा

लोहकण्टकसदृशः । एवं च व्यथकत्वम् । मदनबाणोऽपि हृदयं प्रविशति । एवं चैतद्द-

र्शनेनाहं मदनशरविद्धा तद्योगं विनावस्थातुं न शक्नोमीति तेन सह मां योजयेति ध्वन्यते ॥

 
नायको नायिकां वक्ति-
-
 
मयि चलिते तव मुक्ता दृशः स्वभावात्प्रिये सपानीयाः ।

सत्यममूल्याः सद्यः प्रयान्ति मम हृदयहारत्वम् ॥ ४३५ ॥

 
मयीति । हे प्रिये, मयि प्रस्थिते मुक्ताः परित्यक्ताः । पक्षे मुक्ताफलानि । स्वभावात्स्त्री-

स्वभावात् । पक्षे साहसिकतया । सपानीया अश्रुजलवत्यः । पक्षे तेजोविशेषशालिन्यः ।

अमूल्या उत्कृष्टाः । पक्षे बहुतरद्रव्यलभ्याः । दृष्टयो मम हृदयस्य चेतसः । पक्षे वक्षसः ।

हारत्वमपहारकत्वम् । पक्षे हारभावं प्रयान्ति । इदं सत्यम् । एवं चैतादृशत्वद्विलो-

कनेनाहं गमनपराङ्मुखः संवृत्तोऽस्मीति व्यज्यते ॥
 

 
अहमत्यन्तमदनबाधाकान्तः संवृत्त इति कश्चित्कांचिदाह-
-
 
मुग्धे मम मनसि शराः स्मरस्य पञ्चापि संततं लग्नाः ।

शङ्के स्तनगुटिकाद्वयमर्पितमेतेन तव हृदये ॥ ४३६ ॥

 
मुग्ध इति । हे मुग्धे, स्मरस्य पश्चापि बाणाः । अपिनान्यसत्त्वाभावो व्यज्यते ।

मम मनसि निरन्तरम् । एवं च सर्वमपि मनो विद्धमिति भावः। लग्नाः, न तु निर्गताः।

अत एतेन मदनेन तव हृदये स्तनरूपगुटिकाद्वयमर्पितमित्यहं संभावयामि । शराभावा-

दिति भावः । एवं च गुटिकावेदनायाः स्वल्पतया धैर्यम्, मयि नेति ध्वन्यते ॥

 
कश्चित्कांचिद्वक्ति-
-
 
मधुमथनवदन विनिहितवंशीसुषिरानुसारिणो रागाः । RT
 

हन्त हरन्ति मनो मम नलिकाविशिखाः स्मरस्येव ॥ ४३७ ॥