This page has been fully proofread once and needs a second look.

व्यविवेकविधुरत्वं ध्वन्यते । वृक्षाणाम् । निकटस्थानामिति भावः । मूलानि च, तीरव-
सतिशालिकुलटानां हृदयानि च विदारयसि । वीचीभिः शिथिलकरणेन संकेतिततरून्मू-
लनेनेति भावः । कूलवसतिपदेन कुलटानामनन्यगतिकत्वं तद्धृदयविदारकत्वानौचित्यं
च ध्वन्यते । इदं किं नूचितमिति भावः । एवं चास्थिरद्रव्याद्युन्मादवशात् परोपकारप्रव-
णानां निकटवसतिमात्रशालिनामितस्ततः समानीतान्नोपजीविनां दुःखदानमनुचितं त-
वेति ध्वन्यते ॥
 
पाण्डित्या दिगुणशालित्वेऽपि जडाचाराभिरतं कश्चिदुपदिशति--
 
मलयद्रुमसाराणामिव धीराणां गुणप्रकर्षोऽपि ।
जडसमय निपतितानामनादरायैव न गुणाय ॥ ४३० ॥
 
मलयेति । मूर्खाचारपतितानाम् । 'समयाः शपथाचार --' इत्यमरः । पक्षे शीतका-
लप्राप्तानाम् । चन्दनसाराणामिव धीराणां गुणानां पाण्डित्यादीनाम् । पक्षे सौगन्ध्या-
दीनाम् । आधिक्यमपि । अपिरनादरानर्हत्वं गमयति । अनादरायैव न गुणाय । एवं च
समीचीनस्याप्यसमीचीनाचारप्रविष्टस्य गुणाद्यपि निन्दाकरमेवेत्यतस्त्वया नैवमाचरित-
व्यमिति व्यज्यते ॥
 
कस्याश्चिन्नायिकायाः साम्यं स्वस्मिन् कुर्वाणां कांकाञ्चित् काचिदन्योक्त्या वक्ति--
 
मधुमथनमौलिमाले सखि तुलयसि तुलसि किं मुधा राधाम् ।
यत्तव पदमदसीयं सुरभयितुं सौरभोद्भेदः ॥ ४३१ ॥
 
मध्विति । मधुमथनस्य श्रीकृष्णस्य मौलिसंबन्धशालिनि माले सखि । एवं च यथा-
र्थवादार्हलंत्वं ध्वन्यते । राधां वृथा किमिति तुलयसि स्वसमानां मन्यसे । यद्यस्मात्तव प-
रिमलोद्रेकोऽदसीयं पदं राधासंबन्धिचरणं सुरभीकर्तुम् । श्रीकृष्णेन सर्वदा राधाचरण-
प्रणामकरणादिति भावः । एवं यथा तस्यां गौरवम्, न तथा त्वयीति ध्वन्यते । सौरभोद्भेद
इत्यस्य प्राक्तवेति पदमुचितम् ॥
 
कश्चित् सखायं वक्ति--
 
मयि यास्यति कृत्वावधिदिनसंख्यं चुम्बनं तथा श्लेषम् ।
प्रिययानुशोचिता सा तावत्सुरताक्षमा रजनी ॥ ४३२ ॥
 
मयीति । गन्तुकामे मय्यवधिदिनसमसंख्यं चुम्बनं तथालिङ्गनं कृत्वा प्रियया ता-
वत्संख्याकसुरतसंपादनासमर्था रात्रिरनुशोचिता । एवं च स्त्रीणां रतेऽत्यत्तं प्रीतिरिति
भावः ॥
 
कश्चिद्वेश्यां स्तौति--
 
मृगमदनिदानमटवी कुङ्कुममपि कृषकवाटिका वहति ।
हट्टविलासिनि भवती परमेका पौरसर्वस्वम् ॥ ४३३ ॥