2023-03-20 03:19:59 by Pathan Vali Khan
This page has been fully proofread once and needs a second look.
भवति, तथा ते मानः प्रसादजन्यमुखवैलक्षण्यतया विनष्टः । एवं च प्रसादचिह्नं कंचि-
त्कालं गोपयेति ध्वन्यते । यद्वा यथा विचार्य कलहादिकं च विधायारब्धः समीचीनाना-
मर्थो मुखवैलक्ष्येण ।खस्वतः कृत्रिमत्वेन ज्ञानादिति भावः । अत एव सतामिति पदमुप-
योगि । हतो भवति । लोकैर्मुखवैलक्ष्येणान्यथानिर्णयादिति भावः । तथा ते मानः 'कथं
समाधेयो दयितः' इत्यादिचिन्ताजन्यमुखमालिन्येन हत इत्यर्थः । अथवा मित्रैः समं मि-
ॠत्रतुल्यतया विचार्य । उपकारकत्वादिति भावः । मुखवैलक्ष्येणादैन्यादिवशादिति भावः ।
गुरु महत्तरं कदनं क्लेशादि कृत्वा सम्यगर्जितोऽप्यर्थो द्रव्यं सतां विवेकिनां दुःखदत्वाद-
नादरणीयो भवति । तथा मित्त्रत्वेन विभाव्यैवं चास्माकमनादरकरणं न तवोचितमिति
व्यज्यते । मुखवैलक्षण्येन महत्तरं कलहं कृत्वा । एवं चान्यासां दुर्वचनादिरूपः कलहः,
तव तु मुखवैलक्षण्यकरणमात्ररूप इत्यन्यनायिकाव्यतिरेकः सूच्यते । कृतोऽपि तवायं
मानो हतो भवति दुःखदत्वादनादरणीयो भवति । एवं चैतादृशमानविधानं तवानुचित-
मिति द्योयते ॥
कश्चिल्लज्जावशात् स्वकटाक्षविक्षेपसमयेऽन्यप्रदेशाभिमुखीं कांचिद्वक्ति--
मम रागिणो मनस्विनि करमर्पयतो ददासि पृष्ठमपि ।
यदि तदपि कमलबन्धोरिव मन्ये स्वस्य सौभाग्यम् ॥ ४२७ ॥
ममेति । हे मनखिनि प्रशस्तान्तःकरणे । एवं च कौटिल्याभावो व्यज्यते । अनुरा-
गवतः । पक्षे लौहित्यवतः । करं हस्तम् । पक्षे किरणम् । समर्पयतो मम पृष्ठमपि यदि
ददासि । लज्जावशान्मुखपरावर्तनादिति भावः । पक्षे 'पृष्ठतः सेवयेदर्कम्' इत्युक्तत्वादिति
भावः । तदपि कमलबन्धोरिवखस्वस्याहं सौभाग्यं मन्ये । एवं चैतावताप्यहमात्मानं कृ-
तार्थथं मन्ये, किमु संमुखावलोकन इति भावः । एवं यथाकथंचित् कुचस्पर्शार्थथं करमर्पयतो
मम पृष्ठदाने कूर्पासप्ग्रन्थिमोचनानुमितिदानेनात्यन्तानुकूल्यं विहितं त्वयेति व्यज्यते ॥
पुष्पवतीवृत्तं कश्चित् सखायं वक्ति--
मा स्पृश मामिति सकुपितमिव भणितं व्यञ्जिता न चब्व्रीडा ।
आलिङ्गितया सस्मितमुक्तमनाचार किं कुरुषे ॥ ४२८ ॥
मेति । मा मां स्पृशेति सकुपितमिव । न वास्तवमिति भावः । भणितम् । लज्जा न
च व्यञ्जिता । पुष्पवत्त्वे ज्ञाते स्पर्शमयं न करिष्यतीति भावः । आलिङ्गितया । औत्क-
ण्ठ्यादिति भावः । आचारहीन, किं कुरुषे इति सस्मितम् । सुखोद्रेकादिति भावः । उ-
क्तम् । एवं च कामिनीनां सुरते सर्वदा सौख्यमिति ध्वन्यते ॥
कश्चित्कां काञ्चिदन्योक्त्या वक्ति--
मूलानि च निचुलानां हृदयानि च कूलवसतिकुलटानाम् ।
मुदिरमदिरा प्रमत्ता गोदावरि किं विदारयसि ॥ ४२९ ॥
मूळेलेति । हे गोदावरि, मेघरूपा या मदिरा तयोत्कृष्टमदवती । एवं च कर्तव्याकर्त-
त्कालं गोपयेति ध्वन्यते । यद्वा यथा विचार्य कलहादिकं च विधायारब्धः समीचीनाना-
मर्थो मुखवैलक्ष्येण ।
योगि । हतो भवति । लोकैर्मुखवैलक्ष्येणान्यथानिर्णयादिति भावः । तथा ते मानः 'कथं
समाधेयो दयितः' इत्यादिचिन्ताजन्यमुखमालिन्येन हत इत्यर्थः । अथवा मित्रैः समं मि-
गुरु महत्तरं कदनं क्लेशादि कृत्वा सम्यगर्जितोऽप्यर्थो द्रव्यं सतां विवेकिनां दुःखदत्वाद-
नादरणीयो भवति । तथा मित्त्रत्वेन विभाव्यैवं चास्माकमनादरकरणं न तवोचितमिति
व्यज्यते । मुखवैलक्षण्येन महत्तरं कलहं कृत्वा । एवं चान्यासां दुर्वचनादिरूपः कलहः,
तव तु मुखवैलक्षण्यकरणमात्ररूप इत्यन्यनायिकाव्यतिरेकः सूच्यते । कृतोऽपि तवायं
मानो हतो भवति दुःखदत्वादनादरणीयो भवति । एवं चैतादृशमानविधानं तवानुचित-
मिति द्योयते ॥
कश्चिल्लज्जावशात् स्वकटाक्षविक्षेपसमयेऽन्यप्रदेशाभिमुखीं कांचिद्वक्ति--
मम रागिणो मनस्विनि करमर्पयतो ददासि पृष्ठमपि ।
यदि तदपि कमलबन्धोरिव मन्ये स्वस्य सौभाग्यम् ॥ ४२७ ॥
ममेति । हे मनखिनि प्रशस्तान्तःकरणे । एवं च कौटिल्याभावो व्यज्यते । अनुरा-
गवतः । पक्षे लौहित्यवतः । करं हस्तम् । पक्षे किरणम् । समर्पयतो मम पृष्ठमपि यदि
ददासि । लज्जावशान्मुखपरावर्तनादिति भावः । पक्षे 'पृष्ठतः सेवयेदर्कम्' इत्युक्तत्वादिति
भावः । तदपि कमलबन्धोरिव
तार्
मम पृष्ठदाने कूर्पास
पुष्पवतीवृत्तं कश्चित् सखायं वक्ति--
मा स्पृश मामिति सकुपितमिव भणितं व्यञ्जिता न च
आलिङ्गितया सस्मितमुक्तमनाचार किं कुरुषे ॥ ४२८ ॥
मेति । मा मां स्पृशेति सकुपितमिव । न वास्तवमिति भावः । भणितम् । लज्जा न
च व्यञ्जिता । पुष्पवत्त्वे ज्ञाते स्पर्शमयं न करिष्यतीति भावः । आलिङ्गितया । औत्क-
ण्ठ्यादिति भावः । आचारहीन, किं कुरुषे इति सस्मितम् । सुखोद्रेकादिति भावः । उ-
क्तम् । एवं च कामिनीनां सुरते सर्वदा सौख्यमिति ध्वन्यते ॥
कश्चित्

मू