This page has been fully proofread once and needs a second look.

कश्चित्कं कञ्चित् प्रत्यन्योक्त्या वक्ति--
 
[^१]भालनयनेऽग्निरिन्दुर्गौलौ गात्रे भुजंगमणिदीपाः ।
तदपि तमोमय एव त्वमीश कः प्रकृतिमतिशेते ॥ ४२४ ॥
 
भालेति । हे ईश । एवं चोक्तदोषदाना नर्हत्वं ध्वन्यते । यद्यपि तव ललाटनेत्रे वहिः,
मस्तके चन्द्रः, शरीरे सर्पमणिरूपा दीपास्तथापि त्वं तमोमय एव । एनमर्थमर्थान्तरो-
पन्यासेन द्रढयति । स्वभावं कोऽतिक्रमते । न कोऽपीत्यर्थः । प्रकाशकवस्तुबाहुल्येऽप्य-
न्धकारप्रचुरत्वमिति. विरोधः । तदभावस्तु तमः पदस्य गुणविशेषवाचित्वात् । एवं च
यद्यपि समीचीनसात्त्विकसंगतिस्तवास्ति, तथापि त्वदीयं स्वाभाविकं तमोगुणप्रकृतित्वं
नापगच्छतीति व्यज्यते ॥
 
इत्यनन्तपण्डितकृतगोवर्धन सप्तशतीव्यङ्गयार्थदीपनया समेता भकारव्रज्या ।
----------------------------------
 
मकारव्रज्या ।
 
आसक्त चित्तेनाङ्गनौद्धत्यमपि न गण्यत इति काचित्कंचिद्वक्ति--
 
मधुमदवीतव्रीडा यथा यथा लपति संमुखं बाला ।
तन्मुखमजात तृप्तिस्तथा तथा वल्लभः पिबति ॥ ४२५ ॥
 
मध्विति । मद्यमदा । अत एव गतलजेति विग्रहः । मधुमदेन वीतव्रीडेति करणे
मदपदमधिकमिवाभाति । बाला । एवं च लज्जौचित्यमावेद्यते । यथा यथा संमुखम् ।
अर्थान्नायकस्य । वक्ति । वल्लभोऽजाततृप्तिः सन्वालामुखं तथा तथा सादरमवलोकयति ।
एवं च रसिकानां नायिकौद्धत्यकृतबचनरचनादिक न दुःखदम्, अतस्त्वयैतादृशैतद्वचना-
दिना कोपो न विधेय इति ध्वन्यते ॥
 
सखी नायिकां वक्ति--
 
मित्रैरालोच्य समं गुरु कृत्वा कदनमपि समारब्धः ।
अर्थः सतामिव हतो मुखवैलक्ष्येण मानोऽयम् ॥ ४२६ ॥
 
मित्रैरिति । मित्रै: समं विचार्य, महत्तरं कलहमपि कृत्वा, सम्यक् । आटोपपुरःसर-
मिति भावः । प्रारब्धः । अर्थ इव सतां सभ्यानां मुखवैलक्ष्येण । असम्यगिदमिति धि-
येति भावः । अयं मानस्तव मुखवैलक्ष्येण । प्रसादजन्येनेति भावः । हतः । एवं च यथा
मित्रैः समं विचार्य महत्तरकलहं विधायारब्धोऽर्थः सतां मुखवैलक्ष्यमात्रकरणेन विनष्टो
-----------------------------------------------------------------------------------------
[^]. अत्रापि पुस्तकान्तरे व्याख्याभेदो यथा— 'कश्चनं भक्तः शिवं प्रति वक्ति –
भालेति । एतादृशप्रकाशकसामग्रीसत्त्वेऽपि तमोरूपगुणमय एव । अमुमेवार्थ द्रढयति-
कः स्वभावमतिशेते । त्यजतीत्यर्थः । एवं चाज्ञेयोऽसीति व्यज्यते । अथवा नायकीयपरा-
ङ्गनासङ्गज्ञानोत्तरं विमनस्कां नायिकां सखी दृष्टान्तद्वारा समाधत्ते— तथा च यत्रेश्वर-
सवयवेश्वरः
स्याप्येतादृश्यवस्था तत्र का वार्ता वाच्या त्वदीय नायकस्येति भावः ॥'