2023-03-20 03:02:26 by Pathan Vali Khan
This page has been fully proofread once and needs a second look.
नायिकासखी नायकं वक्ति--
भ्रमरीव कोषगर्भे गन्धहृता कुसुममनुसरन्ती त्वाम् ।
अव्यक्तं कूजन्ती संकेतं तमसि सा भ्रमति ॥ ४२१ ॥
भ्रमरीति । गन्धेन परिमलेन स्वाधीनीकृतचित्ता कुसुममनुसरन्ती कोषगर्भे भ्रमरीव
त्वामनुसरन्ती । अव्यक्तम् । लोकभयादिति भावः । पक्षे कोषैराच्छादितत्वात् । कू-
जन्ती सा तमसि संकेतं भ्रमति । नायिकाया भ्रमरीसाम्येन नायके च कुसुमसाम्येन
यथा कुसुमानुसरणं विना न गतिर्भमर्यास्तथा त्वदनुसरणं विना न गतिर्नायिकाया इति
द्योत्यते ॥
एतस्या मय्यनुरागश्चिरं स्थास्यति न वेति संशयानं नायकं नायिकासखी वक्ति--
भ्रामं भ्रामं स्थितया स्नेहे तव पयसि तत्र तत्रैव ।
आवर्तपतितनौकायितमनया विनयमपनीय ॥ ४२२ ॥
भ्राममिति । तत्र तत्र तद्विधानशालिनि । लोकोत्तर इति यावत् । तव स्नेहरूपे
पयसि । पयःपदेन माधुर्याद्यभिव्यज्यते । पक्षे स्नेहयुक्ते जले । भ्रान्त्वा भ्रान्त्वा स्थि-
तयानया विनयं नम्रतां विशिष्टनीतिं वा । पक्षे विशिष्टनयनम् । अपनीय । आवर्ते-
Sम्भसां भ्रमे पतिता या नौका तद्वदाचरितमेव । एवं च नान्यथा शङ्कनीयमिति भावः ।
एवं च यथा जले स्थिता नौकावर्तपतिता ततोऽन्यत्र न गच्छति, तथेयं तव स्नेहे
स्थिता नान्यत्र चित्तं करिष्यतीति व्यज्यते । तेन च सर्वथैवेयमनुग्राह्येति ॥
काचित् काञ्चिद्वक्ति--
[^१]भ्रमयसि गुणमयि कण्ठग्रहयोग्यानात्ममन्दिरोपान्ते ।
हालिकनन्दिनि तरुणान्ककुझिनो मेढिरज्जुरिव ॥ ४२३ ॥
भ्रमयसीति । हे हालिकनन्दिनि । हालिकपदेन जातिशून्यत्वम्, तेन च कामुकागम-
नसौकर्यम्, विवाहयोग्येयं जातेति ज्ञानवैधुर्येण कंचित्कालं यथेच्छपरपुरुषभोगसंपादनयो-
ग्यत्वं ध्वन्यते । गुणाः सौन्दर्यादयः । पक्षे तन्तवः । स्वसदननिकटे कण्ठग्रहयोग्याना-
लिङ्गनयोग्यान् । पक्षे कण्ठबन्धनयोग्यान् । तरुणान् । मेढिरज्जुः । 'पुंसि मेढिः खले
दारु न्यस्तं यत्पशुबन्धने' इत्यमरः । वृषभानिव भ्रमयसि । एवं चैते गृहमध्य एव
कुतो नानीयन्ते भीतेरभावादिति भावः । 'गुणमय-' इति पाठे गुणप्रचुराश्च ते कण्ठग्र-
हयोग्याश्च तानित्यर्थः ॥
-----------------------------------------------------------------------------------------
[^१]. अस्या आर्यायाः पुस्तकान्तरे तु व्याख्याभेदो यथा – 'काचिदन्योक्त्या हलिक-
वधूं प्रत्याह–भ्रमयसीति । सौन्दर्यशालिनि । पक्षे तन्तुप्रचुरे । कण्ठग्रहयोग्यानालिङ्गन-
योग्यान् । पक्षे ताडनयोग्यान् । स्वगृहसमीपे नूतनान् । पक्षे यूनः । उच्चांसान् । पक्षे
चबलीवर्दान् । मेढिरज्जुरिवेतस्ततः संचारयसि । सुरतस्थलाप्राप्त्येति भावः । 'गुणमय - 2--'
इति पाठे गुणप्रचुराश्च ते कण्ठग्रहयोग्याश्च तानित्यर्थः ॥'