This page has been fully proofread once and needs a second look.

तया बद्धां मामुरसि पातयिष्यति, एतादृशी त्वं भवितासि । श्रमापनोदनाय श्रान्तस्य
चरणाद्युपरि चरणदानादि विधीयत इति लौकिकम् । पथिकाङ्गनाशंसनमेतत् ॥
 
किमित्यस्य गौरवादि न विधीयते त्वयेति वादिनीं सखीं नायिका वक्ति--
 
भूषणतां भजतः सखि कषणविशुद्धस्य जातरूपस्य ।
पुरुषस्य च कनकस्य च युक्तो गरिमा सरागस्य ॥ ४१८ ॥
 
भूषणतामिति । हे सखि, भूषणतां सर्वोत्कृष्टतां कटकादिरूपतां च भजतः । कषणेन
चिरकालीनसंगत्या निकषोपलेन च विशुद्धस्य विज्ञातसकलस्वभावस्य विज्ञातशुद्धेश्च ।
जातरूपस्य सुरूपस्य । यद्वा यतो रूपादिकमित्यर्थः । पक्षे सुवर्णस्य । 'चामीकरं जात-
'रूपम्' इत्यमरः । सरागस्य प्रीतिमतः । पक्षे रागो लौहित्यम् । पुरुषस्य च, कनकस्य
च, गरिमा गौरवम् । पक्षे परिमाणम् । युक्तम् । एवं चैतादृशस्यैव गौरवमुचितम्, अन्या-
दृशस्य नेति भावः ॥
 
स्वगुणैः प्रियवश्यताविधानदक्षाम् 'कार्मणेनानया पतिः स्वाधीनतामानीतः' इति सप-
त्नीभिः प्रोच्यमानां नायिकां काचिदन्योक्त्या वक्ति-
 
भस्मपरुषेऽपि गिरिशे स्नेहमयी त्वमुचितेन सुभगासि ।
मोस्त्वयि जनवादो यदोषधिप्रस्थदुहितेति ॥ ४१९ ॥
 
भस्मेति । भस्ममलिनेऽपि गिरिशे । एवमपि काठिन्यमाविद्यतेऽज्ञत्वं वा । तेन
दुराराध्यत्वम् । स्नेहः प्रीतिस्तत्स्वरूपा, न तु प्रीतिकर्त्री । प्रीतिप्रचुरेति कश्चित् । इत्यु-
चितेन सुभगासि । परं तु यत्, ओषधीनां प्रस्थानि सानूनि यस्मिंस्तस्य दुहितेति ।
'त्रुःस्नुः प्रस्थः सानुरस्त्रियाम्' इत्यमरः । एवं चानया कार्मणबलेन पतिर्वश्यतामानीत इति
जनवादः । जनपदमनिवारणीयतां ध्वनयति । मोघोऽलीकः । एवं च त्वया नायकः
स्वगुणैरेव स्वाधीनतां नीतः, न तु कार्मणबलेनेति व्यज्यते । तेन च लोकस्य भ्रान्त-
त्वम् । तेन च तद्वचनस्याप्रामाण्यम् ॥
 
निकटस्थाया अपि नवोढाया उपभोगो दुःसाध्य इति कश्चिद्वक्ति--
 
भयपिहितं बालायाः पीवरमूरुद्वयं स्मरोन्निद्रः ।
निद्रायां प्रेमाद्रः पश्यति निःश्वस्य निःश्वस्य ॥ ४२० ॥
 
भयेति । बालाया भयेन । नवोढास्वभावसुलभेनेति भावः । आच्छादितं पीवरं
वाङ्घाद्वयं प्रेमार्दः । प्रेमयुक्त इति यावत् । मदनोद्गतनिद्रो नायको निद्रायाम् । नायिकाया
इति भावः । निःश्वस्य निःश्वस्य । संभोगाभावादिति भावः । पश्यति । यद्वा यस्य यत्र
मनस्तदेव तेन निद्रायामपि दृश्यत इति कश्चित्कं कञ्चिद्वक्ति । निद्रायां स्वस्येति भावः ।
एवं च जाप्रग्रद्दशायां यादृग्दृष्टं बालाया ऊरुद्वयं तादृगेव निद्रायां पश्यतीति भावः ॥