This page has not been fully proofread.

काव्यमाला ।
 
भूमीति । भूमौ लुलितं संलग्नमेकं कुण्डलं यत्र । उत्तंसीकृतः काण्डपटो यत्र ।

पश्यन्तीयं मुग्धा निःश्वासैः । क्लेशजन्यैरिति भावः । मनोरेणुसमूहमपि क्षिपति । एवं

चैतस्या एतादृशावलोकनेन मम मनोऽवतिष्ठते मयीति ध्वन्यते ॥

 
मूर्खाङ्गनाभिलाषिणं कंचन काचिदन्योक्त्या वदति-
-
 
-
 
भवतालिङ्गि भुजंगी जातः किल भोगिचक्रवर्ती त्वम् ।
 

कञ्चुक वनेचरीस्तनमभिलषतः स्फुरति लघिमा ते ॥ ४१४ ॥

 
भवतेति । हे कञ्जुक, येन भवता भुजंगी उरगी । पक्षे वेश्या । आलिङ्गिता, यस्त्वं

निश्चयेन भोगिनामुरगाणाम् । पक्षे भोगोपचारशालिनाम् । समूहवर्ती, यद्वा तेषु राजा

जातः । तस्य ते वनेचरी भिल्लकान्ता । पक्षे वनेचरीत्वेन मूर्खताशालित्वं ध्वन्यते ।

स्तनमित्येकत्वमविवक्षितम् । इच्छतो लाघवं स्फुरति । एवं च चतुरायाः संगति परि-

त्यज्याचतुरासंगतीच्छा लाघवकारिणीति ध्वन्यते ॥
 

 
केनचित्कस्याश्चित्संकेतः कृत इति कश्चित्कंचिद्वक्ति
 
--
 
भैक्षभुजा पल्लीपतिरिति स्तुतस्तद्वधूसुदृष्टेन ।
 

रक्षक जयसि यदेकः शून्ये सुरसदसि सुखमस्मि ॥ ४१५ ॥

 
भैक्षेति । तस्य पल्लीपतेर्वध्वा सुदृष्टेन । सकामदृष्ट्यावलोकितेनेत्यर्थः । भिक्षासंब-

न्ध्यन्नभोजनवता । एवं च प्रयासशून्यत्वेन पुष्टत्वाद्यभिव्यज्यते । पल्लीपतिः । एवं च

चातुर्यविशेषाशालित्वं ध्वन्यते । इति स्तुतः स्तुतिविषयीकृतः । तामेवाह - रक्षक, सर्वो-

त्कर्षेण तिष्ठसि । यस्मादेक इतरशून्यः शून्ये मदतिरिक्तजनरहिते देवालये सुखमस्मि ।

एवं च त्वद्रक्षणसामर्थ्यान्न क्कापि कस्यापि भीतिरिति भावः । एवं च देवालये मयै-

काकिना स्थीयते तत्र त्वयागन्तव्यमिति ध्वन्यते ॥
 

 
वृद्धेन स्त्रीसंग्रहो वसुसंग्रहो वा न विधेय इति कश्चित्कंचिद्वक्ति-
-
 
भोगाक्षमस्य रक्षां दृङ्मात्रेणैव कुर्वतोऽनभिमुखस्य ।
 

वृद्धस्य प्रमदापि श्रीरपि भृत्यस्य भोगाय ॥ ४१६ ॥

 
भोगेति। भोगो रतम्, सक्चन्दनादिकं च । तत्रासमर्थस्य । दृष्टिमात्रेण रक्षणं कुर्वतः।

मात्रपदेन शरीरसामर्थ्याभावो ध्वन्यते । 'वाङ्मात्रेण' इत्यपि पाठः । अनभिमुखस्य,

असामर्थ्यात्तत्कटाक्षनिरीक्षणासमर्थस्य, अर्थिपराङ्मुखस्य च । वृद्धस्य प्रकृष्टमदशालिनी

नायिकापि लक्ष्मीरपि सेवकस्य भोगाय । एवं चैतदुभयसंग्रहोऽनर्थक एव तस्येति

द्योलते ॥
 

 
भवितासि रजनि यस्यामध्वश्रमंशान्तये पदं दधतीम् ।
 

स बलाद्वलयितजङ्घाबद्धां मामुरसि पातयति ॥ ४१७ ॥

 
भवितेति । हे रजनि, यस्यां त्वयि श्रमापनोदाय पदं दधतीम् । वलयिता या जवा
 
Sei Gargeshwari Digital Fundation