This page has not been fully proofread.

आर्यासप्तशती ।
 
लघोर्झटित्यपकारः कर्तुं शक्योऽनेन न गौरववत इति कश्चित्कंचिद्वक्ति-
-
 
भूतिमयं कुरुतेऽग्निस्तृणमपि संलग्नमेनमपि भजतः ।

सैव सुवर्ण दशा ते शङ्के गरिमोपरोधेन ॥ ४१० ॥
ते
 

 
भूतीति । संलग्नमपि । एवं च न चिरकालस्तद्विनाश इति भावः । तृणमग्निर्भस्मरूपं

कुरुते । विनाशयतीत्यर्थः । हे सुवर्ण, एनं भजतोऽपि चिरसंबन्धवतोऽपि ते सैव दशा

गुरुत्वानुरोधेनेति तर्कयामि । एवं चायमपकारकारक एव परं तु त्वं स्वगौरवबला देव

यथावस्थितोऽवतिष्ठस्यतो नैनं सेवेयेति ध्वन्यते । यद्वौद्ध त्यविहीनैतत्सेवाकरणेऽत्यन्तम-

र्थावाप्तिरिति कश्चिदन्योक्त्या वक्ति । तृणमित्यनेन दीनमित्यावेद्यते । अत्र समित्युपसर्गो

नोचितः । ऐश्वर्यप्रचुरं कुरुते । सुवर्ण, एनं भजतस्ते गुरुत्ववत्त्वात्सैव दशा । एवं च

त्वयौद्धत्येन नैतस्मात्किचिदवाप्तमित्यावेद्यते ॥
 

 
कश्चित्कांचित्प्रति संकेतं वक्ति -
 
-
 
भवति निदाघे दीर्घे यथेह यमुनेव यामिनी तन्वी ।
 

द्वीपा इव दिवसा अपि तथा क्रमेण प्रथीयांसः ॥ ४११ ॥

 
भवतीति । इहैतस्मिन्निदाघे महत्तरे सति । 'दीर्घा' इति पाठे पूर्वकालाभिप्रायेण

यामिनीविशेषणम् । यमुनेव रात्रिः स्वल्पा भवति । तथा क्रमेण द्वीपा इव । 'द्वीपो-

ऽस्त्रियामन्तरीपं यदन्तर्वारिणस्तटम्' इत्यमरः । दिवसा महत्तरा भवन्ति । यमुनाया-

स्तन्वीत्वकथनेन चरणसंचरणयोग्यत्वं व्यज्यते । द्वीपानां प्रथीयस्त्वकथनेनानेककुञ्ज-

वत्त्वम्, तेन च तत्र क्रीडाविशेषसंपादनयोग्यत्वं ध्वन्यते । एवं च रात्रेरतितनीयस्तया

रतविशेषानर्हत्वेन, दिवसानामतिदीर्घतया दिवैव यमुनाद्वीप एव संकेतयोग्यस्तन्निश्चय

एव विधेय इति द्योत्यते ॥
 

 
नायिकासखी नायकं वक्ति -
 
-
 
भवता महति स्नेहानलेऽर्पिता पथिक हेमगुटिकेव ।
 

तन्वी हस्तेनापि स्प्रष्टुमशुद्धैर्न सा शक्या ॥ ४१२ ॥
 
-
 

 
भवतेति । भवता महति प्रीतिरूपवह्नौ । एवं च त्वत्प्रीतेर्दुःखदत्वं ध्वन्यते । पक्षे

तैलसंबन्धिवह्नौ यार्पिता सुवर्णगुटिकेव । एवं च नायिकायां गौराङ्गीत्वमवेद्यते । सा

तन्वी हे पथिक प्रवासशालिन् । एवं चान्यथाबुद्धियोग्यत्वं द्योत्यते । अशुद्धैर्हस्तेन स्प्र-

टुमपि । एवं च हस्ते स्थापयितुं न शक्येति किं वक्तव्यमिति भावः । न शक्या । एवं

चेयं त्वदासक्त्या नान्यं कमपि चित्तपथे करोतीति ध्वन्यते । तप्ततैले प्रक्षिप्ता सुवर्णा-

दिगुटिका सदोषैर्न स्प्रष्टुं शक्येति दिव्या दिव्यवहारः ॥
 

 
कश्चित्सखायं वक्ति-
-
 

 
भूमिळुलितै ककुण्डलमुत्तंसितकाण्डपटमियं मुग्धा ।
 

पश्यन्ती निःश्वासैः क्षिपति मनोरेणुपूरमपिः ॥ ४१३ ॥DF