This page has been fully proofread once and needs a second look.

बलवदिति । बलवान्यो वायुस्तेन समीपानीतं विकसितनवकमलसौगन्ध्यं यस्य स
मधुपो भ्रमरः कमलिन्या नासायां निःक्षिप्ता बडिशस्य मत्स्यवेधनस्य । 'बडिशं मत्स्य-
चेवेधनम्' इत्यमरः । रज्जुर्यस्यैतादृश इवाकृष्यते । क्वचिद्डिशपदरहितः पाठः ॥
 
गुणमात्रग्राहकत्वं सुजनवम्, दोषमात्रग्राहकत्वं पिशुनत्वमिति कश्चित्कं कञ्चिचिद्वक्ति--
 
बाणं हरिरिव कुरुते सुजनो बहुदोषमप्यदोषमिव ।
यावद्दोषं जाग्रति मलिम्लुचा इव पुनः पिशुनाः ॥ ४०७ ॥
 
बाणमिति । हरिर्विष्णुर्बाणासुरमिव सुजनो बहुदोषमपि । गुणभिन्नो दोषः । पक्षे
बहुतरबाहुशालिनम् । दोषशून्यमिव । पक्षे बाहुरहितम् । कुरुते । मलिम्लुचा इव
तस्करा इव पिशुनाः । पुनःशब्दोऽन्यदित्यर्थे । यावद्दोषम् । समग्रदोषमित्यर्थः । पक्षे
यावद्रात्रिम् । जाग्रति । तद्विषयकगवेषणावन्तो भवन्तीत्यर्थः । पक्षे निद्राभाववन्त
इत्यर्थः । परखास्वापहरणार्थमिति भावः । एवं च सुजनान्न भीतिः किं तु दुर्जनादेवेत्य-
तस्त्वं ततः सावधानतया तिष्ठेति ध्वन्यते ॥
 
नायिकादूती नायकं वक्ति--
 
बौद्धस्येव क्षणिको यद्यपि बहुवल्लभस्य तव भावः ।
भग्ना भग्ना भ्रूरिव न तु तस्या विघटते मैत्त्री ॥ ४०८ ॥
 
बौद्धस्येति । बौद्धस्येव बह्व्यो वल्लभा नायिका यस्य । पक्षे बहूनां वल्लभस्य भक्ति-
विषयस्य । तव यद्यपि भावश्चित्ताभिप्रायः, प्रेम वा । पक्षे पदार्थः । क्षणिकोऽस्थिरः ।
चौबौद्धमते तु पदार्थस्य क्षणिकत्वादस्थिरत्वम् । तथापि भग्ना भग्ना भ्रूरिव तस्या मैत्त्री न
तु विघटते । एवं च भग्नभ्रुवोर्यथा चमत्काराधायकत्वं तथा तदीयकलहस्य प्रीतिजन्यतया
तत्त्वमित्यवेहीति ध्वन्यते ॥
 
इत्यनन्तपण्डितकृतगोवर्धन सप्तशती व्यङ्ग्यार्थदीपनया समेता बकारव्रज्या ।
---------------------------------
 
भकारव्रज्या ।
 
कश्चन दैन्यकारिणं महाकायमन्योक्त्या निन्दति--
 
भ्रमसि प्रकटयसि रदं करं प्रसारयसि तृणमपि श्रयसि ।
विधिङ्मानं तव कुञ्जर जीवं न जुहोषि जठराग्नौ ॥ ४०९ ॥
 
भ्रमसीति । हे कुञ्जर, भ्रमसि । दन्तं प्रकटयसि । रदमित्येकत्वम विवक्षितम् ।
रेंरं शुण्डां हस्तं च प्रसारयसि । तृणमपि । अपिनानाश्रयणीयत्वमावेद्यते । आश्रयसि ।
अतस्तव मानं महापरिमाणं धिक् । उदरानले जीवं न जुहोषि । एवं चोदरपूर्त्यर्थमे-
तादृक्करणमत्यन्तानुचितमिति व्यज्यते । अन्योऽप्युदरपूरणार्थेथं नीचत्वमुपगत इतस्ततो
भ्रमणादि करोतीति लौकिकम् ॥