This page has not been fully proofread.

१४२
 
काव्यमाला ।
 
बलवदिति । बलवान्यो वायुस्तेन समीपानीतं विकसितनवकमलसौगन्ध्यं यस्य स

मधुपो भ्रमरः कमलिन्या नासायां निःक्षिप्ता बडिशस्य मत्स्यवेधनस्य । 'बडिशं मत्स्य-

चेधनम्' इत्यमरः । रज्जुर्यस्यैतादृश इवाकृष्यते । क्वचिद्वडिशपदरहितः पाठः ॥
 

 
गुणमात्रग्राहकत्वं सुजनवम्, दोषमात्रग्राहकत्वं पिशुनत्वमिति कश्चित्कंचिद्वक्ति-
-
 
बाणं हरिरिव कुरुते सुजनो बहुदोषमप्यदोषमिव ।
 

यावद्दोषं जाग्रति मलिम्लुचा इव पुनः पिशुनाः ॥ ४०७ ॥
 

 
बाणमिति । हरिर्विष्णुर्बाणासुरमिव सुजनो बहुदोषमपि । गुणभिन्नो दोषः । पक्षे

बहुतरबाहुशालिनम् । दोषशून्यमिव । पक्षे बाहुरहितम् । कुरुते । मलिम्लुचा इव

तस्करा इव पिशुनाः । पुनःशब्दोऽन्यदित्यर्थे । यावद्दोषम् । समग्रदोषमित्यर्थः । पक्षे

यावद्रात्रिम् । जाग्रति । तद्विषयकगवेषणावन्तो भवन्तीत्यर्थः । पक्षे निद्राभाववन्त

इत्यर्थः । परखापहरणार्थमिति भावः । एवं च सुजनान्न भीतिः किं तु दुर्जनादेवेत्य-

तस्त्वं ततः सावधानतया तिष्ठेति ध्वन्यते ॥

 
नायिकादूती नायकं वक्ति-

 
-
 
बौद्धस्येव क्षणिको यद्यपि बहुवल्लभस्य तव भावः ।
 

भग्ना भग्ना भ्रूरिव न तु तस्या विघटते मैत्री ॥ ४०८ ॥

 
बौद्धस्येति । बौद्धस्येव बकयो वल्लभा नायिका यस्य । पक्षे बहूनां वल्लभस्य भक्ति-

विषयस्य । तव यद्यपि भावश्चित्ताभिप्रायः, प्रेम वा । पक्षे पदार्थः । क्षणिकोऽस्थिरः ।

चौद्धमते तु पदार्थस्य क्षणिकत्वादस्थिरत्वम् । तथापि भग्ना भग्ना भ्रूरिव तस्या मैत्री न

तु विघटते । एवं च भग्नभ्रुवोर्यथा चमत्काराधायकत्वं तथा तदीयकलहस्य प्रीतिजन्यतया

तत्त्वमित्यवेहीति ध्वन्यते ॥
 

 
इत्यनन्तपण्डितकृतगोवर्धन सप्तशती व्यङ्गयार्थदीपनया समेता बकारव्रज्या ।
 

---------------------------------
 
भकारव्रज्या ।
 

 
कश्चन दैन्यकारिणं महाकायमन्योक्त्या निन्दति
 
--
 
भ्रमसि प्रकटयसि रदं करं प्रसारयसि तृणमपि श्रयसि ।

विमानं तव कुञ्जर जीवं न जुहोषि जठराग्नौ ॥ ४०९ ॥
 

 
भ्रमसीति । हे कुअर, भ्रमसि । दन्तं प्रकटयसि । रदमित्येकत्वम विवक्षितम् ।

करें शुण्डां हस्तं च प्रसारयसि । तृणमपि । अपिनानाश्रयणीयत्वमावेद्यते । आश्रयसि ।

अतस्तव मानं महापरिमाणं धिक् । उदरानले जीवं न जुहोषि । एवं चोदरपूर्त्यर्थमे-

तादृक्करणमत्यन्तानुचितमिति व्यज्यते । अन्योऽप्युदरपूरणार्थे नीचत्वमुपगत इतस्ततो

भ्रमणादि करोतीति लौकिकम् ॥
 
Sri Gargeshwari Digital Foundation