2023-03-13 16:00:20 by Pathan Vali Khan
This page has been fully proofread once and needs a second look.
ब्रह्माण्डकुम्भकारं भुजगाकारं जनार्दनं नौमि ।
स्फारे यत्फणचक्रे धरा शरावश्रियं वहति ॥ १७ ॥
ब्रह्माण्डमिति । ब्रह्माण्डं कुम्भस्तं करोतीति तम् । एवं च यथा कुम्भकारस्य कु-
म्भकरणे न क्लेशस्तथास्य ब्रह्माण्डकरण इति व्यज्यते । भुजगस्याकार इवाकारो यस्य
तम् । एवं च वास्तवैतद्रूपं याथातथ्येन निर्णेतुमशक्यमिति व्यज्यते । जनार्दनम् । एवं
चैतद्भीतिरवश्यं विधेयेति ध्वन्यते । तेन चैतदाज्ञा नोल्लङ्घनीयेति । स्फारे । एवं च ध-
राशरावश्रीसंपादनयोग्यत्वं द्योत्यते । यस्य फणासमूहे धरा । एवं च महत्तरत्वं व्य-
ज्यते । शरावस्य स्वल्पमृद्भाजनविशेषस्य श्रियं वहति । तत्तुल्या दृश्यत इति भावः ।
एवं च परमेश्वरभुजगरूपस्यातिविशालत्वं ध्वन्यते । अन्यस्यापि कुलालस्य चक्रे श-
रावो भवतीति लौकिकम् । अत्र धरा शरावश्रियं वहतीत्येतावतैव फणचक्रे स्फारत्व-
सिद्धावुत्तमकाव्यत्वे स्फारपदोपादानमनुचितमित्याभाति ॥
चण्डीजङ्घाकाण्डः शिरसा चरणस्पृशि प्रिये जयति ।
शंकरपर्यन्तजितो विजयस्तम्भः स्मरस्येव ॥ १८ ॥
चण्डीति । प्रिये शंकरे शिरसा चरणस्पृशि कोपापनोदनाय प्रणतिकारिणि सति शं-
करमभिव्याप्य जयवतः स्मरस्य जयस्तम्भ इव चण्डीजङ्घारूपः काण्डो वंशो जयति ।
स्वतः सुखविशेषजनकतया तुच्छविषयपराङ्मुखस्याप्येतादृश्यवस्थासंपादनादिति भावः ।
एवं चैहिकामुष्मिकसुखापेक्षया सीमन्तिनीसङ्गसुखेऽधिकतरत्वमावेद्यते ॥
उन्नालनाभिपङ्केरुह इव येनावभाति शंभुरपि ।
जयति पुरुषायितायास्तदाननं शैलकन्यायाः ॥ १९ ॥
उन्नालेति । येन शंभुरपि । अपिना विष्णोरनवतारत्वेन नाभिपङ्केरुहवत्त्वायोग्यत्वं
व्यज्यते । ऊर्ध्वनालं यन्नाभिपङ्केरुहं तद्वानिव । यद्वा विष्णुरिवेत्यर्थः । एवं च शरी-
रस्य नालसाम्यदर्शनात्कृशाङ्गीत्वमभिव्यज्यते । अवभाति । पुरुषायितायाः शैलकन्या-
याः । एवं च दार्ढ्यम् । तेन पुरुषायितसंपादनयोग्यत्वं ध्वन्यते । तदाननं जयति । अ-
घटितघटनापटुत्वादिति भावः ॥
अङ्कनिलीनगजाननशङ्काकुलबाहुलेयहृतवसनौ ।
सस्मितहरकरकलितौ हिमगिरितनयास्तनौ जयतः ॥ २० ॥
अङ्केति । अङ्के निलीनो यो गजाननस्तच्छङ्कया । स्तनयोः कुम्भिकुम्भसाम्यादिति
भावः । आकुलः । कथं मां विहायैनमेव संगोप्य बहुकालं स्तन्यं प्रयच्छतीति धियेति
भावः । यद्वा नयनपिधानक्रीडायां गजाननोऽङ्क एव निलीनो न त्वन्यत्र गत इति
मत्वेति भावः । आकुलपदेन शीघ्रमविचारितकार्यकारित्वं व्यज्यते । यो बाहुलेयस्ता-
रकजित्तेन हृतवसनौ । गजानननिर्णयार्थमिति भावः । सस्मितः । कथमतिगुप्तयोरप्या-