2023-03-19 16:43:58 by Pathan Vali Khan
This page has been fully proofread once and needs a second look.
बकारव्रज्या ।
काचित् कस्याश्चिद्वृत्तं वक्ति--
बहुयोषिति लाक्षारुणशिरसि वयस्येन दयित उपहसिते ।
तत्कालकलितलज्जा पिशुनयति सखीषु सौभाग्यम् ॥ ४०३ ॥
बहिह्विति । बहुतरनायिकाशालिनि लाक्षयारुणमस्तके प्रियतमे वयस्येनोपहसिते ।
कथं स्त्रीप्रणाममकरोदिति । तत्कालकृतलज्जा नायिका सखीषु सौभाग्यं सूचयति ।
बहुतराङ्गनाजातमपहाय मय्येवासक्त्या मच्चरणप्रणतिजन्यैवेयमरुण तैतच्छिरसीति द्योत-
नेनेति भावः । यद्वा यद्यपि नायको न तथा प्रेमादि विदधाति तथापिसंसख्यादिषु तु
मय्येव प्रेमवानिति प्रदर्शनेन स्वगौरवं रक्षणीय मिति तत्प्रदर्शनप्रकारं काचित्कांचिदुपदि-
शति । बहुयोषितीत्यनेनानेकनायिकाचिन्तया किमीयश्चरणालक्तक इति संदेहयोग्यत्वं
ध्वन्यते । तत्कालं वयस्योपहासैककालम् । अङ्गीकृतलज्जैव सखीषु सौभाग्यं सूचयति ।
एवं चैतादृशसमयेऽनया रीत्या स्वभौभाग्यप्रदर्शनं विधेयमित्यावेद्यते । तेन चैतादृशेऽपि
समये न मनसि खेदो विधेयः, किं तु हर्ष एवाविष्करणीय इति ॥
कश्चिन्नायिका केशकलापं स्तौति--
बन्धनभाजोऽमुष्याश्चिकुरकलापस्य मुक्तमानस्य ।
सिन्दूरित सीमन्तच्छ लेन हृदयं विदीर्णमिव ॥ ४०४ ॥
बन्धनेति । बन्धनवतः । गतपरिमाणस्य । अतिदीर्घस्येत्यर्थः । पक्षे गताभिमानस्य ।
अस्याः केशकलापस्य सिन्दूरयुक्तो यः सीमन्तस्तन्मिषेण हृदयं विदीर्णमिव । बन्धनवतो
गताभिमानस्यापि विदीर्णहृदयता भवतीति लौकिकम् ॥
काचित्कंचिद्वक्ति--
बलमपि वसति मयीति श्रेष्ठिनि गुरुगर्वगद्गदं वदति ।
तज्जायया जनानां मुखमीक्षितमावृतस्मितया ॥ ४०५ ॥
बलमिति । सामर्थ्यमपि । अपिना गुणादिसमुच्चयः । मयि वसति । वसतीत्यनेन यो
हि यदधिकं स्थलं जानाति तत्रैव वसतीत्यतोऽन्यनायकव्यतिरेकः स्वस्मिन्नावेद्यते ।
इत्यतिगर्वगद्गदं यथा स्यात्तथा वदति सति संकुचितस्मितया । एवं च किंचित्सलज्जत्व-
मावेद्यते । तदङ्गनया लोकानाम् । तद्वार्तादत्तावधानानामिति भावः । वदनमीक्षितम् ।
मत्समाधानलेशमपि कर्तुं न शक्नोति वदति त्वेतादृशमपीति विस्मयेनेति भावः । एवं च
वणिजः पुंस्त्वहीनतया तद्दङ्गनायाश्च समृद्धमन्मथत्वेन तत्र त्वद्गमनेन तस्या आसक्ति-
स्त्वयि भविष्यतीति ध्वन्यते ॥
कस्याश्चिद्गुणादिकं कस्यचिद्वदनादाकर्ण्य कश्चित्तस्यामासक्त इति मधुपनलिनीवृत्ता-
न्तव्याजेन काचिद्वक्ति--
बलवदनिलोपनीतस्फुटितनवाम्भोजसौरभो मधुपः ॥
आकृष्यते नलिन्या नासानिः क्षिप्तबडिशरज्जुरिव ॥ ४०६ ॥
काचित् कस्याश्चिद्वृत्तं वक्ति--
बहुयोषिति लाक्षारुणशिरसि वयस्येन दयित उपहसिते ।
तत्कालकलितलज्जा पिशुनयति सखीषु सौभाग्यम् ॥ ४०३ ॥
ब
कथं स्त्रीप्रणाममकरोदिति । तत्कालकृतलज्जा नायिका सखीषु सौभाग्यं सूचयति ।
बहुतराङ्गनाजातमपहाय मय्येवासक्त्या मच्चरणप्रणतिजन्यैवेयमरुण
नेनेति भावः । यद्वा यद्यपि नायको न तथा प्रेमादि विदधाति तथापि
मय्येव प्रेमवानिति प्रदर्शनेन स्वगौरवं रक्षणीय
शति । बहुयोषितीत्यनेनानेकनायिकाचिन्तया किमीयश्चरणालक्तक इति संदेहयोग्यत्वं
ध्वन्यते । तत्कालं वयस्योपहासैककालम् । अङ्गीकृतलज्जैव सखीषु सौभाग्यं सूचयति ।
एवं चैतादृशसमयेऽनया रीत्या स्वभौभाग्यप्रदर्शनं विधेयमित्यावेद्यते । तेन चैतादृशेऽपि
समये न मनसि खेदो विधेयः, किं तु हर्ष एवाविष्करणीय इति ॥
कश्चिन्नायिका
बन्धनभाजोऽमुष्याश्चिकुरकलापस्य मुक्तमानस्य ।
सिन्दूरित सीमन्तच्छ
बन्धनेति । बन्धनवतः । गतपरिमाणस्य । अतिदीर्घस्येत्यर्थः । पक्षे गताभिमानस्य ।
अस्याः केशकलापस्य सिन्दूरयुक्तो यः सीमन्तस्तन्मिषेण हृदयं विदीर्णमिव । बन्धनवतो
गताभिमानस्यापि विदीर्णहृदयता भवतीति लौकिकम् ॥
काचित्कंचिद्वक्ति--
बलमपि वसति मयीति श्रेष्ठिनि गुरुगर्वगद्गदं वदति ।
तज्जायया जनानां मुखमीक्षितमावृतस्मितया ॥ ४०५ ॥
बलमिति । सामर्थ्यमपि । अपिना गुणादिसमुच्चयः । मयि वसति । वसतीत्यनेन यो
हि यदधिकं स्थलं जानाति तत्रैव वसतीत्यतोऽन्यनायकव्यतिरेकः स्वस्मिन्नावेद्यते ।
इत्यतिगर्वगद्गदं यथा स्यात्तथा वदति सति संकुचितस्मितया । एवं च किंचित्सलज्जत्व-
मावेद्यते । तदङ्गनया लोकानाम् । तद्वार्तादत्तावधानानामिति भावः । वदनमीक्षितम् ।
मत्समाधानलेशमपि कर्तुं न शक्नोति वदति त्वेतादृशमपीति विस्मयेनेति भावः । एवं च
वणिजः पुंस्त्वहीनतया त
स्त्वयि भविष्यतीति ध्वन्यते ॥
कस्याश्चिद्गुणादिकं कस्यचिद्वदनादाकर्ण्य कश्चित्तस्यामासक्त इति मधुपनलिनीवृत्ता-
न्तव्याजेन काचिद्वक्ति--
बलवदनिलोपनीतस्फुटितनवाम्भोजसौरभो मधुपः ॥
आकृष्यते नलिन्या नासानिः