This page has not been fully proofread.

आर्यासप्तशती ।
 
१४१
 
बकारव्रज्या ।
 

 
काचित्कस्याश्चिद्वृत्तं वक्ति-
-
 

 
बहुयोषिति लाक्षारुणशिरसि वयस्येन दयित उपहसिते ।

तत्कालकलितलज्जा पिशुनयति सखीषु सौभाग्यम् ॥ ४०३ ॥
 

 
बहिति । बहुतरनायिकाशालिनि लाक्षयारुणमस्तके प्रियतमे वयस्येनोपहसिते ।

कथं स्त्रीप्रणाममकरोदिति । तत्कालकृतलज्जा नायिका सखीषु सौभाग्यं सूचयति ।

बहुतराङ्गनाजातमपहाय मय्येवासक्त्या मच्चरणप्रणतिजन्यैवेयमरुण तैतच्छिरसीति द्योत-

नेनेति भावः । यद्वा यद्यपि नायको न तथा प्रेमादि विदधाति तथापि संख्यादिषु तु

मय्येव प्रेमवानिति प्रदर्शनेन स्वगौरवं रक्षणीय मिति तत्प्रदर्शनप्रकारं काचित्कांचिदुपदि-

शति । बहुयोषितीत्यनेनानेकनायिकाचिन्तया किमीयश्चरणालक्तक इति संदेहयोग्यत्वं

ध्वन्यते । तत्कालं वयस्योपहासैककालम् । अङ्गीकृतलज्जैव सखीषु सौभाग्यं सूचयति ।

एवं चैतादृशसमयेऽनया रीत्या स्वभौभाग्यप्रदर्शनं विधेयमित्यावेद्यते । तेन चैतादृशेऽपि

समये न मनसि खेदो विधेयः, किं तु हर्ष एवाविष्करणीय इति ॥

 
कश्चिन्नायिका केशकलापं स्तौति -
 
-
 
बन्धनभाजोऽमुष्याश्चिकुरकलापस्य मुक्तमानस्य ।
 

सिन्दूरित सीमन्तच्छ लेन हृदयं विदीर्णमिव ॥ ४०४ ॥

 
बन्धनेति । बन्धनवतः । गतपरिमाणस्य । अतिदीर्घस्येत्यर्थः । पक्षे गताभिमानस्य ।

अस्याः केशकलापस्य सिन्दूरयुक्तो यः सीमन्तस्तन्मिषेण हृदयं विदीर्णमिव । बन्धनवतो

गताभिमानस्यापि विदीर्णहृदयता भवतीति लौकिकम् ॥
 

 
काचित्कंचिद्वक्ति-
-
 
बलमपि वसति मयीति श्रेष्ठिनि गुरुगर्वगद्गदं वदति ।
 

तज्जायया जनानां मुखमीक्षितमावृतस्मितया ॥ ४०५ ॥

 
बलमिति । सामर्थ्यमपि । अपिना गुणादिसमुच्चयः । मयि वसति । वसतीत्यनेन यो

हि यदधिकं स्थलं जानाति तत्रैव वसतीत्यतोऽन्यनायकव्यतिरेकः स्वस्मिन्नावेद्यते ।

इत्यतिगर्वगद्गदं यथा स्यात्तथा वदति सति संकुचितस्मितया । एवं च किंचित्सलज्जव-

मावेद्यते । तदङ्गनया लोकानाम् । तद्वार्तादत्तावधानानामिति भावः । वदनमीक्षितम् ।

मत्समाधानलेशमपि कर्तुं न शक्नोति वदति त्वेतादृशमपीति विस्मयेनेति भावः । एवं च

वणिजः पुंस्त्वहीनतया तद्गनायाश्च समृद्धमन्मथत्वेन तत्र त्वद्गमनेन तस्या आसक्ति-

स्त्वयि भविष्यतीति ध्वन्यते ॥
 

 
कस्याश्चिद्गुणादिकं कस्यचिद्वदनादाकर्ण्य कश्चित्तस्यामासक्त इति मधुपनलिनीवृत्ता-

न्तव्याजेन काचिद्वक्ति-
-
 
बलवदनिलोपनीतस्फुटितनवाम्भोजसौरभो मधुपः ॥

आकृष्यते नलिन्या नासानिः क्षिप्तबडिशरज्जुरिव ॥ ४०६ ॥
 
आ० स० १३
 
SADF
 
Sri Gurgeshwari Digital Foundation