2023-02-27 22:10:42 by ambuda-bot
This page has not been fully proofread.
१४०
काव्यमाला ।
पश्येति । चन्द्रशेखरशरीरसंलग्ना उमा पार्वती । उमापदेन 'उमेति मात्रा तपसे नि-
'षिद्धा' इत्यादि कालिदासोक्तरीत्या प्रियप्रीतिस्तपोरूपक्लेशविशेषलभ्येति ध्वन्यते । प्रिय-
शरीर विश्लेषभीत्या भागीरथीम् । भगीरथक्षत्रियसंबन्धोत्कीर्तनेन तीक्ष्णप्रतापतयातिदुःस-
हत्वं व्यज्यते । शिरसा वहति । इदं त्वं पश्य । एवं च त्वयाप्यनयैव रीत्या स्थेयमिति
भावृः । एवं च यत्र भगवत्या पार्वत्याप्येवंरीत्यावस्थीयते तत्र का वार्तान्यासामिति
भावः ॥
काचिद्वक्ति-
पथिकवधूजनलोचननीरनदीमातृकप्रदेशेषु ।
घनमण्डलमाखण्डलधनुषा कुण्डलितमिव विधिना ॥ ४०० ॥
पथिकेति । पथिकाङ्गनानयनबाष्पैर्नदीमातृका नद्यम्बुपालिताः प्रदेशास्तेषु वेधसा
कर्तृभूतेनेन्द्रधनुषा करणभूतेन मेघमण्डलं कुण्डलितमिव । पथिकाङ्गनाश्रुभिरेव सस्यो-
त्पत्तेर्मेघमण्डलस्यानर्थंक्यादिति भावः । एवं च पथिकाङ्गनानयननीराधिक्यप्रतिपादनेन
तासामत्यन्तदुःखमावेद्यते ॥
काचित्कस्याविद्वृत्तं वक्ति-
प्रतिवेशिमित्रबन्धुषु दूरात्कृच्छ्रागतोऽपि गेहिन्या ।
अतिकेलिलम्पटतया दिनमेकमगोपि गेहपतिः ॥ ४०१ ॥
प्रतिवेशीति । गेहिन्या । एवं च सर्वसामर्थ्यमावेद्यते । क्लेशागतोऽपि । एवं च
झटिति सर्वग्राह्यदर्शनयोग्यत्वं ध्वन्यते । गेहपतिः । एवं च बहुतरदिनोत्तरागमनतया
सर्वकार्यस्य स्वमात्रकर्तृकतया सर्वदर्शनयोग्यत्वं व्यज्यते । अत्यन्तं या क्रीडासक्तिस्तया
प्रतिवेशिमित्रबन्धुषु । एवं च गोपनानर्हत्वमावेद्यते । एकं दिनमगोपि । यद्वा गेहिन्या
अप्येतादृशी गतिस्तत्र का वार्तान्यस्या इति काचित् 'कथमीदृशक्रीडालम्पटा त्वम्'
इति वादिनीं प्रति वक्ति ॥
नायिका नायकं प्रति वक्ति-
परपट इव रजकीभिर्मलिनो भुक्त्वापि निर्दयं ताभिः ।
अर्थग्रहणेन विना जघन्य मुक्तोऽसि कुलटाभिः ॥ ४०२ ॥
परेति । हे निन्द्य । निन्द्यकार्यकारित्वादिति भावः । रजकीभिः परपट इव ताभिः
प्रसिद्धाभिः कुलटाभिः मलिनस्त्वं निर्दयं भुक्त्वा । परकीयत्वादिति भावः । द्रव्यग्र-
हणेन विना परित्यक्तोऽसि । एवं च कुलटात्वेन बहुनाय कविषयरतिमत्तया तद्रतेराभास-
तया 'अर्थादौषधवत्कामः' इत्युक्तदिशा च तत्र न रस इति ध्वन्यते । अत्रान्यद्विचार-
जातमस्मत्कृतरसमञ्जरीटिप्पणे द्रष्टव्यम् ॥
इत्यनन्तपण्डितकृतगोवर्धन सप्तशतीव्यङ्गधार्थदीपनया समेता पकारव्रज्या ।
મન મ
Sri Gargeshwari Digital Fuendarion