This page has been fully proofread once and needs a second look.

बाध्यस्योक्तिर्गुणावहा' इत्युक्तदिशा 'क्वाकार्यम्' इत्यादाविव भयानक शृङ्गारयोर विरोधा-
न्नासमञ्जसम् ॥
 
कश्चित्कं कञ्चिदुपदिशति--
 
पिशुनः खलु सुजनानां खलमेव पुरो विधाय जेतव्यः ।
कृत्वा ज्वरमात्मीयं जिंगाय बाणं रणे विष्णुः ॥ ३९६ ॥
 
पिशुन इति । सुजनानां यदि पिशुनो जेतव्यः । एवं च सतां पिशुनजयेन न कापि
श्लाघ्यतेति भावः । तदा निश्चयेन खलमेव पुरो विधाय । एवकारेण स्वातिरिक्तसुज-
नस्य निरासः । अमुमेवार्थं द्रढयितुमितिहासमाह - --विष्णुः । एवं च स्वतः सामर्थ्य -
सत्त्वमावेद्यते । ज्वरं खीस्वीयत्वेन संपाद्य । एवं च दुष्टे यद्यपि स्वीयत्वसंपादनमनुचितं त-
थापि स्वकार्यकाल एव तत्र तद्विधेयमिति ध्वन्यते । सङ्ग्रामे बाणासुरं जितवान् । एवं
च स्वस्य सामर्थ्येऽपि न दुष्टनिबर्हणं स्वयं विधेयमिति ध्वन्यते । तेन च क्लेशेऽपि दुष्टसं-
भाषणमनुचितमिति ॥
 
नायिकेयमत्यन्तमप्रगल्भेत्यतः शनैरेव किंचिदुपभोग्येति सखी नायकमन्योक्त्या
वक्ति-
 
पिब मधुप बकुलकलिकां दूरे रसनाग्रमात्रमाधाय ।
अधरविलेपसमाप्ये मधुनि मुधा वदनमर्पयसि ॥ ३९७ ॥
 
पिबेति । हे मधुप । एवं च रसलम्पटत्वमावेद्यते । तेन च तूष्णीमवस्थित्यनर्हत्वम् ।
दूरे जिह्वाप्ग्रमात्रं संस्थाप्य बकुलकलिकां पिब । अधरस्य विलेपेन समाप्तियोग्ये । अत्र
लेपनेत्येव युक्तम् । मकरन्दे वृथा वदनमर्पयसि । एवं च बकुलकलिकाया अतिसूक्ष्म-
त्वात्तन्मधुनोऽतिस्वल्पतया वदनसंपर्के समाप्तिरेव भविष्यतीत्यतो रसनामेग्रेणैव तद्ब्ग्राह्य-
मिति भावः । एवं च नेयमत्यन्तसुरत विमर्दसहेति ध्वन्यते ॥
 
कश्चित्कं कञ्चिद्वक्ति--
 
प्रायेणैव हि मलिना मलिनानामाश्रयत्वमुपयान्ति ।
कालिन्दीपुटभेदः कालियपुटभेदनं भवति ॥ ३९८ ॥
 
प्रायेणेति । बाहुल्येन मलिनानामाश्रयत्वं प्राप्नुवन्ति । अर्थान्तरन्यासेनामुमेवार्थं द्रढ-
यति--यमुनायाः पुटभेदश्चक्राणि । 'चक्राणि पुटभेदाः स्युः' इत्यमरः । कालियनाम-
सर्पस्य पुटभेदनं पत्तनम् । 'पत्तनं पुटभेदनम्' इत्यमरः । भवति । एवं चामलिनाभिर्ग-
ङ्गादिभिर्न कालियस्याश्रयो दत्तः, किं तु कलिन्दतनययैवेति भावः । एवं च सद्भिरसता-
माश्रयो न देय इति ध्वन्यते ॥
 
प्रियप्रीतिनिमित्तं सपत्नीसंमाननमपि विधेयमिति काचित्कां काञ्चिच्छिक्षयति--
 
पश्य प्रियतनुविघटनभयेन शशिमौलिदेहसंलग्ना ।
सुभगैकदैवतमुमा शिरसा भागीरथीं वहति ॥ ३९९ ॥