This page has not been fully proofread.

आर्यासप्तशती ।
 
१३९
 
बाध्यस्योक्तिर्गुणावहा' इत्युक्तदिशा 'क्वाकार्यम्' इत्यादाविव भयानक शृङ्गारयोर विरोधा-

नासमञ्जसम् ॥

 
कश्चित्कंचिदुपदिशति-
-
 
पिशुनः खलु सुजनानां खलमेव पुरो विधाय जेतव्यः ।

कृत्वा ज्वरमात्मीयं जिंगाय बाणं रणे विष्णुः ॥ ३९६ ॥
 

 
पिशुन इति । सुजनानां यदि पिशुनो जेतव्यः । एवं च सतां पिशुनजयेन न कापि

श्लाघ्यतेति भावः । तदा निश्चयेन खलमेव पुरो विधाय । एवकारेण स्वातिरिक्तसुज-

नस्य निरासः । अमुमेवार्थ द्रढयितुमितिहासमाह - विष्णुः । एवं च स्वतः सामर्थ्य -

सत्त्वमावेद्यते । ज्वरं खीयत्वेन संपाद्य । एवं च दुष्टे यद्यपि स्वीयत्वसंपादनमनुचितं त-

थापि स्वकार्यकाल एव तत्र तद्विधेयमिति ध्वन्यते । सङ्ग्रामे बाणासुरं जितवान् । एवं

च स्वस्य सामर्थ्येऽपि न दुष्टनिबर्हणं स्वयं विधेयमिति ध्वन्यते । तेन च क्लेशेऽपि दुष्टसं-

भाषणमनुचितमिति ॥
 

 
नायिकेयमत्यन्तमप्रगल्भेयतः शनैरेव किंचिदुपभोग्येति सखी नायकमन्योक्त्या
 

वक्ति-

 
पिब मधुप बकुलकलिकां दूरे रसनाग्रमात्रमाधाय ।

अधरविलेपसमाप्ये मधुनि मुधा वदनमर्पयसि ॥ ३९७ ॥
 

 
पिबेति । हे मधुप । एवं च रसलम्पटत्वमावेद्यते । तेन च तूष्णीमवस्थित्यनर्हत्वम् ।

दूरे जिह्वाप्रमात्रं संस्थाप्य बकुलकलिकां पिब । अधरस्य विलेपेन समाप्तियोग्ये । अत्र

लेपनेत्येव युक्तम् । मकरन्दे वृथा वदनमर्पयसि । एवं च बकुलकलिकाया अतिसूक्ष्म-

त्वात्तन्मधुनोऽतिखल्पतया वदनसंपर्के समाप्तिरेव भविष्यतीत्यतो रसनामेणैव तद्ब्राय-

मिति भावः । एवं च नेयमत्यन्तसुरत विमर्दसहेति ध्वन्यते ॥
 

 
कश्चित्कंचिद्वक्ति-
-
 
प्रायेणैव हि मलिना मलिनानामाश्रयत्वमुपयान्ति ।

कालिन्दीपुटभेदः कालियपुटभेदनं भवति ॥ ३९८ ॥

 
प्रायेणेति । बाहुल्येन मलिनानामाश्रयत्वं प्राप्नुवन्ति । अर्थान्तरन्यासेनामुमेवार्थ द्रढ-

यति – यमुनायाः पुटभेदश्चक्राणि । 'चक्राणि पुटभेदाः स्युः' इत्यमरः । कालियनाम-

सर्पस्य पुटभेदनं पत्तनम् । 'पत्तनं पुटभेदनम्' इत्यमरः । भवति । एवं चामलिनाभिर्ग-

ङ्गादिभिर्न कालियस्याश्रयो दत्तः, किं तु कलिन्दतनययैवेति भावः । एवं च सद्भिरसता-

माश्रयो न देय इति ध्वन्यते ॥
 

 
प्रियप्रीतिनिमित्तं सपत्नीसंमाननमपि विधेयमिति काचित्कांचिच्छिक्षयति-
-
 
पश्य प्रियतनुविघटनभयेन शशिमौलिदेहसंलग्ना ।

सुभगैकदैवतमुमा शिरसा भागीरथीं वहति ॥ ३९९ ॥
 
GDF
 
Sa Gurgeshwari Digital Fundation,