This page has not been fully proofread.

१३८
 
काव्यमाला ।
 
तेन चात्यन्तानुरागवत्त्वम्। संध्यारागमित्यनेनात्यन्तलौहित्यवत्त्वमधरे व्यज्यते । दिन-
स्येत्यनेन बहिवर्तितया नायके लोकदृश्यत्वं ध्वन्यते । समर्पयतीत्यनेन स्वयं चुम्बनविरा-
मासंपादनेन रागोद्धुरत्वं नायिकायां द्योत्यते । एवं च त्वयापि भीतिमुत्सृज्यैवंविधाचर-
णमाचरणीयमिति ध्वन्यते ॥
 
नायिका नायकं वक्ति-
परपति निर्दयकुलटाशोषित शठ नेर्ष्यया न कोपेन ।
दग्धममतोपतप्ता रोदिमि तव तानवं वीक्ष्य ॥ ३९३ ॥
 
परेति। परस्याः पत्यौ निर्दया या अनेकगामिन्यस्त्राभिर्हृतशरीरसार । सर्वखपरत्वेन
कादाचित्कलाभवत्त्वम्, तेन चायन्तसुरतसंपादनार्हत्वं ध्वन्यते । शठ । एवं च विश्वासा-
भाववत्त्वमन्यवचनप्रामाण्यानभ्युपगन्तृत्वं च व्यज्यते । नेर्ष्यया । तासामिति भावः । न
कोपेन । किमिति तत्र गम्यत इति हेतोरिति भावः । दग्धममतोपतप्ताहं तव कार्य
वीक्ष्य रोदिमि। दग्धपदेन ममताया निवारणानर्हतयात्यन्त दुःखदत्वं ध्वन्यते । एवं चै-
तादृशेऽपि त्वयि मम ममतेति स्वस्मिन्नाधिक्यमावेद्यते । अन्योऽपि संतप्तो रोदितीति
लौकिकम् ॥
 
प्राङ्गण एव कदा मां श्लिष्यन्ती मन्युकम्पिकुचकलशा ।
 

 
अंसनिषण्णमुखी सा स्नपयति बाप्पेण मम पृष्ठम् ॥ ३९४ ॥
प्राङ्गण इति । प्राङ्गण एव । एवं च प्रेमाधिक्यमावेद्यते । मांश्लिष्यन्ती । कोपेन
कथमियन्ति दिनान्यतिवाहितानि विदेश इति घियेति भावः । कम्पितस्तनकलशा ।
स्कन्धस्थितवदना सा पूर्वानुभूता बाष्पेण मम पृष्ठं कदा स्नपयति । स्नपयिष्यतीत्यर्थः ।
पथिकाशंसनमेतत् ॥
 
कथमीदृशभयानकावसरे प्रियसविधे समभिसरणमिति वादिनीं नायिकां दूती कस्या-
विद्वत्तकथनव्याजेन सति प्रेम्णि न कस्यापि भीतिरिति वक्ति-
प्रेतैः प्रशस्तसत्त्वा साश्रु वृकैर्वीक्षिता स्खलझासैः ।
 
चुम्बति मृतस्य वदनं भूतमुखोल्केक्षितं बाला ॥ ३९९ ॥
प्रेतैरिति । प्रेतैः स्तुतसामर्थ्या । स्खलासैः । विस्मयादिति भावः । साश्रु । क्रिया-
विशेषणमेतत् । कथमीदृश्या अपि प्रियः प्रपेदे पञ्चत्वमिति शोकोद्रेकादिति भावः । वी-
क्षिता बाला । एवं च भीतियोग्यत्वं ध्वन्यते । भूतमुखसंबन्धिनी योल्का तयेक्षितम् ।
एवं चान्धकारबाहुल्यं ध्वन्यते । मृतस्य । अर्थात्स्वप्रियस्य । वदनं चुम्बति । एवं चैता-
दृशसमयेऽपि भीत्यनुदयेन जुगुप्साद्यभावेन च प्रेम्णि दृढत्वमा वेद्यते । अत्र प्रेतैः प्रशस्त-
सत्त्वेत्यादिकथनं भयानकाङ्गमपि शृङ्गारपरिपोषकत्वादथवा बाध्यत्वेनोक्तत्वाद्वा 'स्मर्य-
माणो विरुद्धोऽपि' इत्युक्तदिशा 'अयं स रशनोत्कर्षी' इत्यादाविव 'संचार्यादेविरुद्धस्य
 
Sri Gurgeshwari Dignal Foundation