This page has been fully proofread once and needs a second look.

स्वप्रियस्यागमनेन नायिकायां गुणातिशयो द्योत्यते । तेन चेतरनायिकाव्यतिरेको ध्वन्यते ।
शिखरस्य पर्वतसंबन्धित्वात्प्रीतौ चात्युत्कटत्वं लक्ष्यते । प्रयोजनं चेतरगर्वव्यतिरेकः ॥
 
नायिकासखी नायकमन्योक्त्या नायिकाप्रेम वक्ति--
 
पृष्ठं प्रयच्छ मा स्पृश दूरादपसर्प विहितवैमुख्य ।
त्वामनुधावति तरणिस्तदपि गुणाकर्षतरलेयम् ॥ ३९० ॥
 
पृष्ठमिति । हे विहितवैमुख्य । पक्षे कृतौदासीन्य । वैमुख्यकार्यमाह--पृष्ठं प्रयच्छ ।
तीरस्थिततरणेः पृष्ठेनैव गभीरजलनिरसनमिति कैवर्तकसंप्रदायः । यद्वा गुणाकर्षकस्य
नौकासांमुख्याभावादिति भावः । अत एव मा स्पृश । करणेति भावः । पक्षे विलोकना-
भावं कुरु, आलिङ्गनं च मा कुरु । दूरादपसर्प । पक्षे निकटवर्तित्वाभावं कुरु । तथापि
गुणैस्तृणरचितैः । पक्षे चातुर्यादिभिः । आकर्षणं तेन चञ्चलेयं तरणिस्त्वामनुधावति ।
एवं च यद्यपि त्वमुदासीनस्तथापि त्वदीयचातुर्यादिगुणलुब्धा त्वामेवानुसरतीति ध्वन्यते।
तेन च नैतादृगाचरणमुचितं तवेति । नौरपि पृष्ठप्रदानादिकारिणमनुलक्षीकृत्य निषादक-
र्तृकगुणकरणकाकर्षणेनागच्छतीति भावः ॥
 
नायकः सखायं वक्ति--
 
प्रियया कुङ्कुमपिञ्जरपाणिद्वययोजनाङ्कितं वासः ।
प्रहितं मां याच्ञाञ्जलिसहस्रकरणाय शिक्षयति ॥ ३९१ ॥
 
प्रिययेति।प्रियया, न तु नायिकया। कुङ्कुमेन पिञ्जरं यत्करयुगलं तद्विधानचिह्नितं प्रे-
षितं वासोऽनेकप्रार्थनाञ्जलिसंपादनाय मां शिक्षयति । कुङ्कुमपिञ्जरत्वेनारक्तत्वम्, तेन च
कोपवत्त्वं द्योत्यते । पाणिद्वययोजनाङ्कितमित्यनेन मत्प्रणतिरावेद्यते । एवं च प्रणामोऽयं
भवतामास्तामंत्रागमनं भवतामिति द्योत्यते । तेन कुपितत्वे ज्ञातेऽनेक प्रार्थनाञ्जलिकरणं
मम प्राप्तमिति ध्वन्यते । यद्वा प्रियैकप्रणामग्रहणजन्यौद्धत्य निवारण कारणानेकप्रणामकरणं
मम प्राप्तमिति ध्वन्यते । तेन च नायिकायामाधिक्यम् । यद्वा यथा मया त्वत्प्रात्यर्थम-
ञ्जलिः क्रियते तथा त्वया मदर्थेथं मदीयगुरुष्वञ्जलयो विधेया इति शिक्षा । माङ्गलिकत्वेन
कुङ्कुमसंबन्धः। अथवाहं रजःशालिनीत्यतः क्षन्तव्यो मदनागमनापराध इति ज्ञापनायै-
काञ्जलिकरणे मयाञ्जलिसहस्रकरणेनेदानीमेव रतमभ्यर्थनीयमिति भावः ॥
 
दूती कस्याश्चित् साहसकथनेन नायिकायाः साहसकर्तृत्वमुपदिशति--
 
प्राचीरान्तरितेयं प्रियस्य वदनेऽधरं समर्पयति ।
प्राग्गिरिपिहिता रात्रिः संध्यारागं दिनस्येव ॥ ३९२ ॥
 
प्राचीरेति । इयं तव प्रतिवेशिनी प्राचीरेण व्यवहिता । 'प्राचीरं प्रान्ततो वृतिः' इत्य-
मरः । प्रियस्य वदनेऽधरं समर्पयति । प्राचीनाचलाच्छादिता रात्रिः संध्यारागं दिवसस्येव
वदने । प्राग्गिरिसमताप्रतिपादनेन प्राचीरेऽतितुङ्गत्वं ध्वन्यते । तेन चोल्लङ्घनानर्हत्वम् ।
रात्रिसमताप्रतिपादनेन तमः प्रधानतयान्य जनावलोकनभीति शून्यत्वं नायिकायामावेद्यते ।