This page has not been fully proofread.

आर्यासप्तशती ।
 
स्वप्रियस्यागमनेन नायिकायां गुणातिशयो द्योत्यते । तेन चेतरनायिकाव्यतिरेको ध्वन्यते ।

शिखरस्य पर्वतसंबन्धित्वात्प्रीतौ चात्युत्कटत्वं लक्ष्यते । प्रयोजनं चेतरगर्वव्यतिरेकः ॥

 
नायिकासखी नायकमन्योक्त्या नायिकाप्रेम वक्ति -
 
-
 
पृष्ठं प्रयच्छ मा स्पृश दूरादपसर्प विहितवैमुख्य ।
 

त्वामनुधावति तरणिस्तदपि गुणाकर्षतरलेयम् ॥ ३९० ॥
 

 
पृष्ठमिति । हे विहितवैमुख्य । पक्षे कृतौदासीन्य । वैमुख्यकार्यमाह – पृष्ठं प्रयच्छ ।

तीरस्थिततरणेः पृष्ठेनैव गभीरजलनिरसनमिति कैवर्तकसंप्रदायः । यद्वा गुणाकर्षकस्य

नौकासांमुख्याभावादिति भावः । अत एव मा स्पृश । करणेति भावः । पक्षे विलोकना-

भावं कुरु, आलिङ्गनं च मा कुरु । दूरादपसर्प । पक्षे निकटवर्तित्वाभावं कुरु । तथापि

गुणैस्तृणरचितैः । पक्षे चातुर्यादिभिः । आकर्षणं तेन चञ्चलेयं तरणिस्त्वामनुधावति ।

एवं च यद्यपि त्वमुदासीनस्तथापि त्वदीयचातुर्यादिगुणलुब्धा त्वामेवानुसरतीति ध्वन्यते।

तेन च नैतादृगाचरणमुचितं तवेति । नौरपि पृष्ठप्रदानादिकारिणमनुलक्षीकृत्य निषादक-

र्तृकगुणकरणकाकर्षणेनागच्छतीति भावः ॥

 
नायकः सखायं वक्ति-
-
 
प्रियया कुङ्कुमपिञ्जरपाणिद्वययोजनाङ्कितं वासः ।
 

प्रहितं मां याच्ञाञ्जलिसहस्रकरणाय शिक्षयति ॥ ३९१ ॥

 
प्रिययेति।प्रियया, न तु नायिकया। कुङ्कुमेन पिञ्जरं यत्करयुगलं तद्विधानचिह्नितं प्रे-

षितं वासोऽनेकप्रार्थनाञ्जलिसंपादनाय मां शिक्षयति । कुङ्कुमपिञ्जरत्वेनारक्तत्वम्, तेन च

कोपवत्त्वं द्योत्यते । पाणिद्वययोजनाङ्कितमित्यनेन मत्प्रणतिरावेद्यते । एवं च प्रणामोऽयं

भवतामास्तामंत्रागमनं भवतामिति द्योत्यते । तेन कुपितत्वे ज्ञातेऽनेक प्रार्थनाञ्जलिकरणं

मम प्राप्तमिति ध्वन्यते । यद्वा प्रियैकप्रणामग्रहणजन्यौद्धत्य निवारण कारणानेकप्रणामकरणं

मम प्राप्तमिति ध्वन्यते । तेन च नायिकायामाधिक्यम् । यद्वा यथा मया त्वत्प्रात्यर्थम-

अलिः क्रियते तथा त्वया मदर्थे मदीयगुरुष्वञ्जलयो विधेया इति शिक्षा । माङ्गलिकत्वेन

कुङ्कुमसंबन्धः। अथवाहं रजःशालिनीत्यतः क्षन्तव्यो मदनागमनापराध इति ज्ञापनायै-

काञ्जलिकरणे मयाञ्जलिसहस्रकरणेनेदानीमेव रतमभ्यर्थनीयमिति भावः ॥

 
दूती कस्याश्चित्साहसकथनेन नायिकायाः साहसकर्तृत्वमुपदिशति-
-
 
प्राचीरान्तरितेयं प्रियस्य वदनेऽधरं समर्पयति ।

प्राग्गिरिपिहिता रात्रिः संध्यारागं दिनस्येव ॥ ३९२ ॥
 

 
-
 

 
प्राचीरेति । इयं तव प्रतिवेशिनी प्राचीरेण व्यवहिता । 'प्राचीरं प्रान्ततो वृतिः' इत्य-

मरः । प्रियस्य वदनेऽधरं समर्पयति । प्राचीनाचलाच्छादिता रात्रिः संध्यारागं दिवसस्येव

वदने । प्राग्गिरिसमताप्रतिपादनेन प्राचीरेऽतितुङ्गत्वं ध्वन्यते । तेन चोल्लङ्घनानर्हत्वम् ।

रात्रिसमताप्रतिपादनेन तमः प्रधानतयान्य जनावलोकनभीति शून्यत्वं नायिकायामावेद्यते ।
Sri Gargeshwari Digital Fundation