This page has been fully proofread once and needs a second look.

पूर्वाधिक इति । गृहिण्या॑यां पूर्वापेक्षयाधिकः । बह्वनेकप्रकारः । इदं च लिङ्गविपरिणा-
मादग्रेऽप्यन्वेति । मानः । प्रेम । नर्म क्रीडा । विश्वासः । इयमधिका भीः । एवं च
भीतेः पूर्वमभावो ध्वन्यते । रागं बालाविभक्तमिव कथयति । एवं च यावत्पर्यन्तं तस्या-
मेवानुरागः स्थितस्तावत्पर्यन्तं नैतादृशमानादिकं न भीतिः । तद्धेत्वभावात् । इदानीं तु
मानादिनैतत्समाधानेनेयं मां न पीडयिष्यतीति धियैतादृशाचरणं तवेति भावः । एवं
च यत्रासाधारणं प्रेम न तत्र किमपि मानादि बाह्योपचारकरणमपेक्षितमिति ध्वन्यते ॥
 
स्त्रपीडाभयेन स्वप्रभोरप्यनिष्टं चिन्त्यत एवेति कश्चित् 'कथं स्वप्रभोरनुचिताशंसनं
करोषि' इति वादिनं वक्ति--
 
पुलकित कठोरपीवर कुचकलशा श्लेषवेदनाभिज्ञः ।
शंभोरुपवीतफणी वाञ्छति मानग्रहं देव्याः ॥ ३८८ ॥
 
पुलकितेति । संजातपुलकौ । नायकस्पर्शजसुखाविर्भावादिति भावः । यौ कठोरपी-
वरकुचकलशौ तदाश्लेषपीडाभिज्ञः शंभोरुपवीतरूपफणी पार्वत्या मानग्रहं वाञ्छति ।
एवं चालिङ्गनाद्यभावेन स्वपीडानुत्पत्तिर्भविष्यतीति धियेति भावः । कठोरेत्यनेन वेद-
नायामाधिक्यं ध्वन्यते । एवं च शंभोरित्यनेन सुखजनकत्वप्रतिपादनादुपवीतपदेनाति-
निकटतयातिप्रेमवत्त्वव्यञ्जनात्फणीत्यने भारसहनसामर्थ्यद्योतनादीदृशस्यापि क्लेशविशे-
षासहिष्णुत्वं किमुतान्यस्येति द्योत्यते । यद्वा यो हि स्वयं दुःखाभिज्ञः स एव परस्य
दुःखनिवृत्तिं वाञ्छतीति कश्चित्कंचिद्वक्ति । एवं च फणेर्वेदनाभिज्ञत्वेन शंभोः कठोर-
कुचवेदना मा भवत्विति बुद्धिरुदेतीति ध्वन्यते । अथवात्यन्तमानवती सा नायातीति
दुष्टदूतीवचनाच्छिथिलयत्नं नायकं नायिकासखी वक्ति । फणीत्यनेन दुष्टत्वं द्योत्यते ।
यद्वा नायकं प्रति स्वयातायातभयान्नायिकादुःस्वभावेति कथयन्तीं नायकसखीं ज्ञात्वा
नाथियिकासखी नायकं प्रति वक्ति । एवं चेयं त्वदीयदुष्टसखी स्वयातायातादिपीडाभयेन
तस्या एतादृशस्वभावशालित्वं त्वय्यावेदयति, न वास्तवं सा तथेति ध्वन्यते । तेन च
त्वरस्व तद्दर्शनयत्न इति ॥
 
काचित्कां काञ्चित् कस्याश्चिद्वार्त्तातां वक्ति--
 
प्रिय आयातो दूरादिति या प्रीतिर्बभूव गेहिन्याः ।
पथिकेभ्यः पूर्वागत इति गर्वात्सापि शतशिखरा ॥ ३८९ ॥
 
प्रिय इति । दूरादायात इति हेतोर्गेहिन्या या प्रीतिर्बभूव सा पथिकेभ्योऽपि पूर्वमागत
इति गर्वादत्यधिका जाता। अन्येषां न तथा स्वप्रियासु प्रीतिर्यथा मत्प्रियस्येति घिधियेति
भावः । प्रियपदमागमनेन प्रीतिजनकत्वमावेदयति । दूरादित्यनेन चिरविरहशालित्वं
द्योल्त्यते । गेहिनीपदेन गृहव्यासङ्गप्रवणाया अप्येतादृशावस्थावत्त्वं तत्रेतरस्याः किं वक्त-
व्यमिति ध्वन्यते । पथिकपदं प्रियात्पूर्वेवं प्रचलितत्वं व्यञ्जयति । बहुवचनेन सर्वेषामपि
पश्चात्परित्यागेनोत्कण्ठा तिशयशालित्वं नायके व्यज्यते । एवं चान्येषां त्वरयानागमनेन