This page has not been fully proofread.

काव्यमाला ।
 
पूर्वाधिक इति । गृहिण्या॑ पूर्वापेक्षयाधिकः । बह्वनेकप्रकारः । इदं च लिङ्गविपरिणा-

मादग्रेऽप्यन्वेति । मानः । प्रेम । नर्म क्रीडा । विश्वासः । इयमधिका भीः । एवं च

भीतेः पूर्वमभावो ध्वन्यते । रागं बालाविभक्तमिव कथयति । एवं च यावत्पर्यन्तं तस्या-

मेवानुरागः स्थितस्तावत्पर्यन्तं नैतादृशमानादिकं न भीतिः । तद्धेत्वभावात् । इदानीं तु

मानादिनैतत्समाधानेनेयं मां न पीडयिष्यतीति धियैतादृशाचरणं तवेति भावः । एवं

च यत्रासाधारणं प्रेम न तत्र किमपि मानादि बाह्योपचारकरणमपेक्षितमिति ध्वन्यते ॥

 
स्त्रपीडाभयेन वप्रभोरप्यनिष्टं चिन्त्यत एवेति कश्चित् 'कथं स्वप्रभोरनुचिताशंसनं

करोषि' इति वादिनं वक्ति-
-
 
पुलकित कठोरपीवर कुचकलशा श्लेषवेदनाभिज्ञः ।
 

शंभोरुपवीतफणी वाञ्छति मानग्रहं देव्याः ॥ ३८८ ॥

 
पुलकितेति । संजातपुलकौ । नायकस्पर्शजसुखाविर्भावादिति भावः । यौ कठोरपी-

वरकुचकलशौ तदाश्लेषपीडाभिज्ञः शंभोरुपवीतरूपफणी पार्वत्या मानग्रहं वाञ्छति ।

एवं चालिङ्गनाद्यभावेन स्वपीडानुत्पत्तिर्भविष्यतीति धियेति भावः । कठोरेत्यनेन वेद-

नायामाधिक्यं ध्वन्यते । एवं च शंभोरित्यनेन सुखजनकत्वप्रतिपादनादुपवीतपदेनाति-

निकटतयातिप्रेमवत्त्वव्यञ्जनात्फणीत्यनेव भारसहनसामर्थ्यद्योतनादीदृशस्यापि क्लेशविशे-

षासहिष्णुत्वं किमुतान्यस्येति द्योत्यते । यद्वा यो हि स्वयं दुःखाभिज्ञः स एव परस्य

दुःखनिवृत्तिं वाञ्छतीति कश्चित्कंचिद्वति । एवं च फणेर्वेदनाभिज्ञत्वेन शंभोः कठोर-

कुचवेदना मा भवत्विति बुद्धिरुदेतीति ध्वन्यते । अथवात्यन्तमानवती सा नायातीति

दुष्टदूतीवचनाच्छिथिलयत्नं नायकं नायिकासखी वक्ति । फणीत्यनेन दुष्टत्वं द्योत्यते ।

यद्वा नायकं प्रति स्वयातायातभयान्नायिकादुःस्वभावेति कथयन्तीं नायकसखीं ज्ञात्वा

नाथिकासखी नायकं प्रति वक्ति । एवं चेयं त्वदीयदुष्टसखी स्वयातायातादिपीडाभयेन

तस्या एतादृशस्वभावशालित्वं त्वय्यावेदयति, न वास्तवं सा तथेति ध्वन्यते । तेन च

त्वरख तद्दर्शनयत्न इति ॥
 

 
काचित्कांचित्कस्याश्चिद्वार्त्ता वक्ति-
-
 
प्रिय आयातो दूरादिति या प्रीतिर्बभूव गेहिन्याः ।
 
-
 

पथिकेभ्यः पूर्वागत इति गर्वात्सापि शतशिखरा ॥ ३८९ ॥
 

 
प्रिय इति । दूरादायात इति हेतोर्गेहिन्या या प्रीतिर्बभूव सा पथिकेभ्योऽपि पूर्वमागत

इति गर्वादत्यधिका जाता। अन्येषां न तथा स्वप्रियासु प्रीतिर्यथा मत्प्रियस्येति घियेति

भावः । प्रियपदमागमनेन प्रीतिजनकत्वमावेदयति । दूरादित्यनेन चिरविरहशालित्वं

द्योल्यते । गेहिनीपदेन गृहव्यासङ्गप्रवणाया अप्येतादृशावस्थावत्त्वं तत्रेतरस्याः किं वक्त-

व्यमिति ध्वन्यते । पथिकपदं प्रियात्पूर्वे प्रचलितत्वं व्यञ्जयति । बहुवचनेन सर्वेषामपि

पश्चात्परित्यागेनोत्कण्ठा तिशयशालित्वं नायके व्यज्यते । एवं चान्येषां त्वरयानागमनेन
Sri Curgeshwari Bigtal Fundarion