This page has not been fully proofread.

१३४
 
काव्यमाला ।
 
प्रकटयतीति । हे दूति । एवं च तद्योगसंपादनं त्वदधीनमित्यावेद्यते । शुक्रस्येव

दयितस्य लपनं संभाषणम् । पक्षे वदनम् । अधिकं रागं प्रीतिम् । पक्षे लौहित्यम् ।

प्रकटयति । वक्रिमाणं वक्रोक्तिमत्त्वम् । पक्षे वक्रत्वम् । आवहति । आङा नैकमपि

वक्रोक्तिरहितं पदं तत्रेत्यावेद्यते । तेन च नायके चातुर्यातिशयशालित्वम् । प्रतिपदं

प्रतिशब्दम् । पक्षे प्रतिक्षणम् । प्रीणयति च । यच्चाधिकरागशालि न तद्वक्रतामाव-

हति । यच्च वक्रतामावहति न तत्प्रीतिजनकम् । इदं चैकमेतत्रितयजनकमित्याश्चर्य -

मिति भावः । केचित्तूभयत्रापि लपनं मुखमेवेत्याहुः । एवं चैतादृशनायकं सपदि सं-

योजय मया सहेति ध्वन्यते ॥
 

 
स्वकटाक्षविक्षेपादिना नायकः स्वाधीनताभाजनं विधेय इति काचित्कांचिच्छि-

क्षयति-
-
 
प्रविशन्त्याः प्रियहृदयं बालायाः प्रबलयौवतव्याप्तम् ।

नवनिशितदरतरङ्गित नयनमयेनासिना पन्थाः ॥ ३८२ ॥

 
प्रविशन्त्या इति । प्रबला रूपादिसंपत्तिशालिन्यः । प्रबलपदमन्यस्याजेयत्वमावे-

दयति । या युवत्यस्तत्समुदायव्याप्तम् । एवं च स्वस्थित्यर्थमवकाशाभावो व्यज्यते ।

प्रियहृदयम् । एवं चावश्यप्रवेशसंपादनौचित्यं ध्वन्यते । प्रविशन्त्या बालायाः । नूत-

नस्तीक्ष्णः । दरमीषत् । किंचिल्लज्जावत्त्वादिति भावः । तरङ्गितमुत्तरोत्तराधिक्यं त

च्छाली यः कटाक्षस्तद्रूपेणासिना खड्ङ्गेन पन्था मार्गः । एवं च त्वयैतादृशकटाक्षेण वि.

लोकितेऽवश्यं नायकस्खा अपहल त्वय्यासक्तो भविष्यतीति ध्वन्यते । अन्योऽपि प्र

बलव्याप्तस्थलादौ केवलं खड्ग सहायेन प्रवेशं करोतीति लौकिकम् ॥

 
नायिकासखी नायकं वक्ति -
 
--
 
प्रणयापराधरोषप्रसादविश्वासकेलिपाण्डित्यैः ।
 

रूढप्रेमा हियते किं बालाकुतुकमात्रेण ॥ ३८३ ॥
 

 
प्रणयेति । प्रणयापराधेन रोषः, प्रसादः, विश्वासः, क्रीडाविषयकपाण्डित्यमेतै रूढं

प्रेम यस्या एतादृशी नायिका । यद्वा प्रवृद्धप्रेमा । अर्थान्नायिकायाः । एवं च भाविसु-

खसंभावनया स्वतःसिद्धसुखपरिहारकर्तव्यता नोचितेति ध्वन्यते । तेन च भवतामीह-

शकर्तव्यतया नायिका खिन्ना भवतीत्यावेद्यते । यद्वा नायको नायिकासखीं वक्ति। रूढ-

प्रेमा। अर्थान्नायिकया सह बालायाः कुतुकमात्रेण किं ह्रियते । काक्का न हियत इत्यर्थः ।

एवं च बालायाः कौतूहलमात्रमेतत् । वास्तवानुरागो मम तस्यामेवेति ध्वन्यते ॥

 
काचिदन्योक्त्या पूर्व स्वस्मिन्सतं वार्धक्यात्सुरतादावुपेक्षितमन्यविटद्वेषिणं कंचन
चक्ति-

चक्ति--
 
पूर्वैरेव चरित्रैश्चरितैर्जरतोऽपि पूज्यता भवतः । GDF
 

मुञ्च मदमस्य गन्धायुवभिर्गज गञ्जनीयोऽसि ॥ ३८४ ॥
 
Sri Gurgeskusri Digital Foundation