This page has not been fully proofread.

आर्यासप्तशती ।
 
१३३
 
कश्चिदन्योक्त्या कस्यचित्कर्तव्यतामालोक्य स्वयमपि तथाकर्तुमुद्यतं कंचन वक्ति-
पवनोपनीतसौरभदूरोदकपूरपद्मिनीलुब्धः ।
 
अपरीक्षितस्वपक्षो गन्ता हन्तापदं मधुपः ॥ ३७८ ॥
 
पवनेति । समीरणाहृतसौरभा, उदकपूरवर्तिनी या पद्मिनी तस्यामासक्तोऽविचा-
रितस्वपक्षबलो मधुपः । हन्त इति खेदे । आपदं गन्ता । पवनपदेन चञ्चलखभावेन
केनचिदेतस्याः कीर्तिः कृतेति व्यज्यते । दूरोदकपूरेत्यनेन प्राप्तावपि काठिन्यमावेद्यते ।
अपरीक्षितेत्यनेन यथाकथंचित्स्व सहायवचनमात्रादेव नोयोगः कर्तव्य इति ध्वन्यते ।
आपदमित्येकत्वमविवक्षितम् । मधुप इत्यनेनाविवेकित्वं ध्वन्यते । एवं यथाकथंचित्क.
स्यचिन्मुखान्नायिकागुणश्रवणमात्रेण दुष्प्रापायां तस्यामासक्तिर्यद्यनेन क्रियते तर्ह्यनेनाव-
श्यं क्लेशाः प्राप्या एवेति भावः । एवं च त्वयैतादृगनुचितं नाचरणीयमिति व्यज्यते ॥
प्रेमवशानायके लघुतामङ्गीकुर्वत्यपि स्वयं नावगणना विधेयेति सखी नायिकां भ
ङ्गयन्तरेण शिक्षयति-
प्रेमलघूकृतकेशववक्षोभरविपुलपुलककुचकलशा
 

 
गोवर्धन गिरिगुरुतां मुग्धवधूर्ध्निभृतमुपहसति ॥ ३७९ ॥
 
L
 

 
प्रेमलघूकृतेति । प्रेम्णा । नायिकाविषयकेणेत्यर्थः । लघुकृतः । वास्तवतया तस्य
चतुर्दशभुवनाधारतयातिगुरुत्वादिति भावः । एवं च प्रियाप्रणयात्किं किं न क्रियत
इति ध्वन्यते । यः केशवस्तस्य वक्षसि धारणे विपुलपुलकौ कुचकलशौ यस्या एतादृशी
मुग्धा सुन्दरी । अथ च मूढा । वधूः । यद्वा मुग्धस्य वधूः । एवं च प्रियस्य चातुर्य-
चत्त्वे नायिकाया अपि तद्वत्त्वं भवतीति ध्वन्यते । गोवर्धननामधेयमहीधरस्य गुरुतां
गुप्तं हसति । येन गोवर्धनोद्धारणं कृतं सोऽपि मया लघुतया वक्षसि धृत इति न किं-
चिद्गौरवमिति धियेति भावः । एवं च केशवस्याप्युपहासो व्यज्यते । एवं चैतादृश-
मौर्य न कदापि विधेयं त्वयेति ध्वन्यते ॥
 
प्रियप्रीतौ सत्यां न केनापि किमपि कर्तुं शक्यमिति काचित्कांचिद्वक्ति-
प्रियविरहनिःसहायाः सहजविपक्षाभिरपि सपत्नीभिः ।
रक्ष्यन्ते हरिणाक्ष्याः प्राणा गृहभङ्गभीताभिः ॥ ३८० ॥
 
प्रियेति । दयितविरहक्षीणायाः । एवं च प्रकारान्तरमरणे समाधेः सत्त्वादिति भावः ।
सहजशत्रुभूताभिरपि । एवं चावश्यापकारकरणयोग्यत्वं द्योत्यते । अपिनान्येषां का
वार्तेति व्यज्यते । गृहभङ्गभीताभिः । एतस्या मरणे प्रियमरणस्यावश्यं भावित्वादिति
भावः । एवं च प्रियानुरागातिशयवत्त्वमावेद्यते । मृगाक्ष्याः प्राणा रक्ष्यन्ते । एवं च
यथा नायकः स्त्रियति तथावश्यं विधेयं त्वयेति ध्वन्यते ॥
 
नायिका दूर्ती वक्ति-
प्रकटयति रागमधिकं लपनमिदं वक्रिमाणमावहति ।
प्रीणयति च प्रतिपदं दूति शुकस्येव दयितस्य ॥ ३८१ ॥
 
CDF
 
Sri Gurgeshwari Digital Fundation