This page has not been fully proofread.

१३२
 
काव्यमाला ।
 
नायिकासखीं नायको वक्ति । तुङ्गेत्यादिनान्याङ्गव्यतिरेको ध्वन्यते । एवं च यद्यपि न
मया मुखतस्तथा चाटुवचनादि विधीयते परं तु मम हृदयमियमेवाधिवसति न काचि-
दन्या हृदयविषयापीति व्यज्यते । अथवा नायिकोक्तिरियम् ॥
 
कथमस्मासु श्वश्रूर्न स्नियतीति वादिनमनभिज्ञनायकं नायिकासखी वक्ति-
प्रातर्निद्राति यथा यथात्मजा लुलितनिःसहैरङ्गैः ।
 
जामातरि मुदितमनास्तथा तथा सादरा श्वश्रूः ॥ ३७५ ॥
प्रातरिति । यथा यथा । लुलितानि ग्लानान्यत एव निःसहानि । सालस्यानीत्यर्थः ।
एवंविधैरङ्गैः प्रातरात्मजा निद्राति, मुदितमनाः श्वश्रूर्जामातरि तथा तथा सादरा भू-
वति । लुलितनिःसह्रैरित्यनेन रतातिशयशालित्वमावेद्यते । आत्मजेत्यनेन तत्सुखवत्वेन
तस्याः सुखवत्त्वमिति ध्वन्यते । एवं च त्वयाद्य रात्रौ तथा रतातिशयो विधेयो यथेयं
मत्सखी प्रातरत्यन्तनिःसहाङ्गतया स्वापं करिष्यतीति व्यज्यते ॥
 
नायिका सखीं वक्ति-
-
 
प्रणयचलितोऽपि सकपटकोपकटाक्षैर्मयाहितस्तम्भः ।
 
त्रासतरलो गृहीतः सहासरभसं प्रियः कण्ठे ॥ ३७६ ॥
 
प्रणयेति । हे सखि, प्रणयात्प्रीतेश्चलितोऽपि, प्रणयेन वा चलितः । सकपटा ये को-
पकटाक्षास्तैराहितस्तम्भः संपादितस्यैर्यः । त्रासेन तरलः । मत्कृतकोपकटाक्षादिति
भावः । प्रियो मया सहासरभसं कण्ठे कृतः । एवं च नायकेऽतिसरलत्वमावेद्यते ॥
 
काचिन्नायका कस्मिंश्चिदासक्ता तदीयान्याङ्गनासक्ति विज्ञायात्यन्तदुःखिता खहृदयं
प्रति वक्ति -
 
प्रियदुर्नयेन हृदय स्फुटसि यदि स्फुटनमपि तव श्लाध्यम् ।
तत्केलिसमरतल्पीकृतस्य वसनाञ्चलस्येव ॥ ३७७ ॥
 
प्रियेति । हे हृदय । एवं चोपदेशयोग्यत्वं ध्वन्यते । प्रियस्य दुर्नयेन । एवं चातिदुः-
खवत्त्वमावेद्यते । यदि स्फुटसि विदीर्णतामाप्नोषि तर्हि तव स्फुटनमपि श्लाघ्यम् । तस्य
केलिरूपसङ्ग्रामे तल्पीकृतवस्त्रप्रान्तस्येव । समरपदेनातिदुःसहत्वं रत आवेद्यते । एवं च
शय्यादिविरहवत्यपि देशेऽत्यन्तसाहसेन चिरतरसुरतसुखसंपादनेन यः प्रियत्वात्परितोषि-
तस्तदीयैतादृशदुश्चेष्टितस्यातिदुःसहतया 'विरमति कथनं विना न खेदः' इत्यादिवचना-
त्कस्यचित्कथनानर्हत्वेऽपि स्वस्यैवैतादृशाविचारित कार्यकारितयातिमौर्यावहतया कथनी-
यत्वेन तद्भराद्विदीर्णतापि समुचिता न पुनरन्यत्र तत्कथनमिति ध्वन्यते । तेन चैतादृ-
शप्रियानुचिताचरणस्य कथने खस्यैव लज्जाजनकत्वमिति । यद्वा येनैतादृशसंभोगसुखमु-
स्पादितं तदीयैतादृशौदासीन्ये मरणमेव वरं न पुनर्दूत्यादिप्रेषणं मानादिधारणं वेति
ब्यज्यते । अपिरवधारणार्थः । 'प्रियदुर्नयेनात्यन्तं दुःखं भवतीति भावः' इति ऋजवः ॥
 
-