2023-02-27 22:09:56 by ambuda-bot
This page has not been fully proofread.
O
६
काव्यमाला ।
मावेद्यते स्वच्छताविशेषो वा । जयति । लक्ष्म्याः पुरुषायिताभ्यासनिदानतैव सर्वोत्कर्षे
हेतुः । अन्योऽप्यादर्शे प्रतिबिम्बमवलोक्यैवान्यानवलोकनीयचेष्टाविशेषाभ्यासं करो-
तीति लौकिकम् ॥
केलिचलाङ्गुलिलम्भितलक्ष्मीनाभिर्मुरद्विषश्चरणः ।
स जयति येन कृता श्रीरनुरूपा पद्मनाभस्य ॥ १३ ॥
केलीति । क्रीडाचपलाङ्गुल्या लम्भितः स्पृष्टो लक्ष्म्याः । चरणसेवाकारिण्या इति
भावः । नाभिर्येन । अत एव येन श्रीः पद्मानाभस्यानुरूपा । चरणरूपपद्मनाभित्वेनेति
भावः । कृता । स मुरद्विषश्चरणो जयति । ब्रह्मणोऽव्यसाध्यकार्यकरणादिति भावः ॥
रोमांवली मुरारे: श्रीवत्सनिषेविताग्रभागा वः ।
उन्नालनाभिनलिनच्छायेवोत्तापमपहरतु ॥ १४ ॥
रोमावलीति । मुरारेः । एवं च सामर्थ्यमभिव्यज्यते । तेन च तद्वत्त्वेऽपि भृगुचरण-
हननसहिष्णुत्वेन क्षमातिक्षयत्वम् । श्रीवत्सेन भृगुचरणचिहेन निषेवितः । तत्संबन्ध-
वानित्यर्थः । अग्रभागो यस्याः सा । एतादृशी रोमावली । उदूर्ध्व नालं यस्यैवंभूतं य-
न्नाभिनलिनं तच्छायेव । एवं च रोमावल्यां नालच्छायोत्प्रेक्षा श्रीवत्से च नलिनच्छा-
योत्प्रेक्षेति भावः । उत्तापं महासंतापमपहरतु । कमलच्छायायाः संतापापनोदकत्वा-
दिति भावः ॥
आदाय सप्ततन्त्रीचितां विपञ्चीमिव त्रयीं गायन् ।
मधुरं तुरंगवदनोचितं हरिर्जयति हयमूर्धा ॥ १५ ॥
आदायेति । सप्तसंख्याकानां तन्त्राणामग्निष्टोमादीनां समाहारः सप्ततन्त्री । तक्या-
ताम् । तत्प्रतिपादनपरामिति यावत् । 'तन्त्रं प्रधाने यागे च' इति विश्वः । पक्षे तन्त्री
लोहतन्तुविशेषः । त्रयीं विपश्वीमिवादाय मधुरं तुरंगवदनानां गन्धर्वाणामुचितं योग्यम् ।
एवं चैतादृशगानकर्तृत्वाभावस्तेषामिति व्यज्यते । गायन् । हयमूर्धा हयग्रीवः । एवं च
तुरंगवदनोचितगानकर्तृत्वम् । हरिर्जयति । एतादृशविलक्षणगानगुणरूपवत्त्वादिति भावः॥
स जयति महावराहो जलनिधिजठरे चिरं निमग्नापि ।
येनान्त्रैरिव सह फणिगणैर्बलादुद्धृता घरणी ॥ १६ ॥
सेति । येन जलनिधिजठरे । डलयोरैक्याजडनिधित्वेन धरणीस्थानदानयोग्यत्वम् ।
चिरमित्यनेन झटिति निःसारणायोग्यत्वं व्यज्यते । निमनापि । अन्त्रैरिवाहिसमूहैः
सह बलात्कारेण धरण्युद्धृता । स महावराहः । एवं चैतद्दंष्ट्राया अन्ते दृढत्ववक्रत्वा-
भ्यां जठरान्तर्गतत्वेनान्त्ररूपफणिसमूहसहितधरोद्धारसामर्थ्यमुचितमिति व्यज्यते ।
जयति । अनन्यसाध्यकार्यकरणादिति भावः ॥
Sri Gurgeshwari Digital Foundation