This page has been fully proofread once and needs a second look.

मानसंपादनेन नायकस्य वारं वारं प्रार्थना दिसंपादनावगणनेन नायं नायिकासुखप्रदो यतः
सर्वदेयं क्लेशवत्येव लक्ष्यत इत्ययशस्तदीयं भवति । तदियं स्वस्यैवानौचितीमाविष्करोति,
अतो नैतादृशं विधेयमित्यावेद्यते ॥
 
काचित्पथिकं वक्ति--
 
पथिक कथं चपलोज्ज्वलमम्बुजलबिन्दुनिवहमविषह्यम् ।
मयपुरकनकद्रवमिव शिवशरशिखिभावितं सहसे ॥ ३७२ ॥
 
पथिकेति । हे पथिक । एवं च वसत्यभाववत्त्वमावेद्यते । चपलाभिर्विद्युद्भिरुज्ज्व-
लम् । पक्षे चपलावदुज्ज्वलम् । अविषह्यम् । उद्दीपकत्वादिति भावः । पक्ष उष्णत्वा-
दिति भावः । मेघजलसमुदायबिन्दुसमुदायम् । न तु कतिपयजलबिन्दवः । शंकरबाणा-
नलसंतापितम् । अत्र शिवपदं प्रकृताननुगुणम् । मयनामकदैत्यनगरकनकद्रवमिव कथं
सहसे । एवं च कथं वृष्टिमध्य एव स्थीयते कुतो नागम्यते वृष्टिबाधोपशमनस्थल इति
भावः । एवं चैतादृशोद्दीपनविभाववति समये कथमेकाकितया स्थातुं शक्यम्, अतो मत्सं-
विधमागत्यैनं समयमतिवाहयेति व्यज्यते ॥
 
काचित्कां काञ्चिद्वदति--
 
पथिकं श्रमेण सुप्तं दरतरला तरुणि सुमधुरच्छाया ।
व्यालम्बमानवेणिः सुखयसि शाखेव सारोहा ॥ ३७३ ॥
 
पथिकमिति । हे तरुणि । ईषच्चञ्चला । सुष्टु मधुरा छाया यस्याः । व्यालम्बमाना
वेणिर्यस्याः । विपरीतरतसंविधानादिति भावः । सारोहा सशिफा । 'शाखा शिफावरोह:
स्यात्' इत्यमरः । पक्ष आरोहणमारोहः । शाखेव सुखयसि । मदनानलतापनिवारकत्वा-
दिति भावः । श्रमेण सुप्तं पथिकम् । पथिकपदेन सुखसंपादनयोग्यत्वं ध्वन्यते । शा-
खापि किंचिच्चश्ञ्चला शीतलच्छाया लम्बमानजटा श्रमसुप्तपथिकसुखहेतुर्भवति । एवं
चानेन सह त्वया विपरीतरतं विहितमिति ध्वन्यते । यद्वा पथिकं सुखयसीति सुखयि-
घ्यसीति प्रश्नः । पथिकमित्यनेनातिकामुकत्वं तत्सुखदानेन पुण्यवत्त्वमन्यापरिचेयत्वं च
व्यज्यते ॥
 
निगूढमन्याङ्गनासक्तचित्तं नायकं नायिकासखी वक्ति--
 
प्रददाति नापरासां प्रवेशमपि पीनतुङ्गजघनोरूः ।
या लुप्तकीलभावं याता हृदि बहिरदृश्यापि ॥ ३७४ ॥
 
प्रददातीति । या तव हृदि बहिरदृश्यापि लुप्तकीलधर्मेमं याता सा तुङ्गपीनजघनो रू-
रपरासां प्रवेशमपि न प्रददाति । लुप्तकीलभावे बहिरदृश्यत्वं हेतुः । अन्यासां प्रवे-
शाप्रदाने तुङ्गपीनजघनोरुत्वं हेतुः । अपिनावस्थितिव्यवच्छेदः । एवं च काचित्तवान्तः-
करणेऽस्ति ययान्यत्र चित्तं न ददासीति व्यज्यते । भूमावन्तर एकस्मिन्कीले सत्यन्य-
कीलस्य न तत्र प्रवेश इति लौकिकम् । यद्वा कथमन्याङ्गनालम्पटस्त्वमसीति वादिनीं