This page has not been fully proofread.

१३०
 
काव्यमाला ।
 
इव सकलनायकशिरोरत्नरूपः प्रबलतरतयान्यजननिर्भयः खिड्गविद्याविशारदो नायकः

समधिवसतीत्यतस्त्वरख गमनायेति ध्वन्यते । महत्तरसर्पाक्रान्ततया शैलस्य गमनानई-

त्वमन्येषामावेद्यते । केलितल्पसादृश्येन नायिकायाः सुखगमनयोग्यत्वं ध्वन्यते । काञ्ची-

गुणसादृश्येन निरन्तरजघनसंगतिशालित्वप्रतिपादनेनातिमदनशालित्वं व्यज्यते । पतित

इत्यनेन दैववशाल्लब्ध इति ध्वन्यते । यद्वा सखी नायिकां वक्ति - समन्तान्महौषधिम-

णिसमुदायवति । पक्षे प्रकाशातिशयशालिमणिनिकरवति । निर्भरतातिशयविधाना-

न्मणिमुक्तादिग्रीवाद्याभरणभ्रंशादिति भावः । शैल इव केलितल्पे । शैलसमताप्रतिपा-

दनेनातिदृढत्वं तल्प आवेद्यते । तेन चैतादृशरतविमर्दसहनयोग्यत्वम् । पतितः । प्रसुप्त इति

यावत् । स्थितमेकरत्नं यस्मिन्स: । फणायामिति भावः । पक्षे पतितः । त्रुटितत्वादिति

भावः । स्थितं मुख्यं रत्नं यस्मिन्स फणीव काचीगुणः स्फुरति । तवेति भावः । फणि-

पदेन स्पर्शायोग्यत्वं ध्वन्यते । एवं च तथाशयितरतसंविधानजन्यालसतया निकटस्थ

काञ्चीगुणोऽपि स्प्रष्टुं न शक्यते त्वयेत्यतो मामाज्ञापयसि तदानयनार्थमित्यावेद्यते ॥

 
अन्याङ्गनासक्त्येतस्ततः परिभ्रमन्तं नायकं नायिकान्योक्त्या वक्ति-
-
 
प्रावृषि शैलश्रेणीनितम्बमुज्झन्दिगन्तरे भ्रमसि ।
 

चपलान्तर घन किं तव वचनीयं पवनवश्योऽसि ॥ ३७० ॥

 
प्रावृषीति । वर्षासमये । एवं च बहिर्गमनानर्हत्वं व्यज्यते । पर्वतश्रेणीनितम्बम् ।

'नितम्बः कटकोऽस्त्रियाम् । अथ च स्खनितम्बिनीस्तननितम्बम् । उज्झंस्त्यजन् ।

दिगन्तरे । इतस्तत इत्यर्थः । भ्रमसि । चपला विद्युत्सान्तरे मध्ये यस्य । अथ च चप-

लेतस्ततो गमनस्वभावा पराङ्गनान्तरे चित्ते यस्य । यद्वा चञ्चलखभाव चलचित्त ।

घन तव किं वचनीयम् । वाच्यमित्यर्थः । यतः पवनवश्योऽसि वाय्वधीनोऽसि । अथ च

वातूलोऽसि । पिशाच इति यावत् । एवं च यतो यतो वायुना नीयसे तत्र तत्र गच्छ-

सीति न तवापराध इति व्यज्यते । एवं च सुन्दरीं नवयौवनलालसां मादृशीं विहाये-

तस्ततो व्यभिचरणशीलामन्तःकरणे विधाय पिशाचवदितस्ततो भ्रमसि तत्र न तवाप-

राधः किं तु मौढ्यस्येति व्यज्यते ॥
 

 
सर्वदा मानवत्तयैव त्वया स्थीयत
इदमनुचितमिति भङ्गयन्तरेण सखी नायिकां
 
सर्वदा मानवत्तयैव त्वया स्थीयत
 
चक्ति -
 

वक्ति--
 
प्रतिदिवसक्षीणदशस्तवैष वसनाञ्चलोऽतिकरकृष्टः ।

निजनायकमतिकृपणं कथयति कुग्राम इव विरलः ॥ ३७१ ॥

 
प्रतीति । प्रतिदिनं क्षीणा दशा प्रान्तभागो यस्य । पक्षे क्षीणावस्थः । अत्यन्तं करेण

हस्तेनाकृष्टः। पक्षेऽत्यन्तराजदण्डपीडितः । विरलः शिथिलतन्तुसंयोगवान् । पक्षे

स्वल्पजनवसतिः । तव एष वसनाञ्चलो निजस्वामिनं कुग्राम इव कृपणम् । वसनान्तर-

ग्रहणासामर्थ्यादिति भावः । पक्षे द्रव्यलोभकरणेनेति भावः । कथयति । एवं चैतादृश-
Sri Gurgeshwari Digital Fiunitacion