This page has not been fully proofread.

आर्यासप्तशती ।
 
१२९
 
संतापजन्यमालिन्य निवारकतयेति भावः । पञ्जरस्थचकोरिकाणाम् । चकोरीपदेन तदे-

काधीनजीवनवत्त्वमा वेद्यते । कणिकातो न्यूनोऽपि न विशेषः ॥

 
कथमनयातिविलम्बितमिति वादिनं नायकं नायिकासखी समाधत्ते-
-
 
प्रथमागत सोत्कण्ठा चिरचलितेयं विलम्बदोषे तु ।
 

वक्ष्यन्ति साङ्गरागाः पथि तरवस्तव समाधानम् ॥ ३६७ ॥

 
प्रथमेति । हे प्रथमागत । एवं च कोपौचित्यमिति व्यज्यते । उत्कण्ठासहितेयम् ।

अत एव चिरकालं चलिता । स्वसदनादिति भावः । ननु विलम्बः किमित्यत आह -

विलम्बदोषे तु । दोषपदेन करणानर्हत्वं ध्वन्यते । समाधानं सहाङ्गरागेण वर्तन्त एता-

दृशा मार्गस्थतरवो वक्ष्यन्ति । एवं च किमर्थमन्त्रास्माभिः समाधानं विधेयमिति भावः ।

पथिपदमवश्यंभाविदर्शनवत्ता मावेदयति। एवं च त्वद्विरहाछ्रान्तिवशात्त्वद्भ्रमेण प्रतिपदपद्ध-

तिपादपालिङ्गनेन विलम्बः संवृत्त इति व्यज्यते । तेन च क्षणमपि त्वद्विरहमसहमाने-

यमिति । 'विलम्बदोषेण' इति पाठे संकेते बहुकालं नायकं प्रतीक्ष्य स्वगृहं प्रति गतायां

नायिकायां समागतनायकं प्रति नायिकासखी वक्ति । प्रथममागता । यतः सोत्कण्ठेयं

नायिका । विलम्बदोषेण । तवेति भावः । पथि । स्वगृहस्येति भावः । अचिरम् ।

अधुनेत्यर्थः । चलिता । ननु मिथ्यैव त्वं वदसीत्यत्राह – तव समाधानं साङ्गरागाः ।

स्वगमनज्ञानाय चिह्नवन्तः कृता इत्यर्थः । तरवो वक्ष्यन्ति । एवं च न तस्या अपराध

इति भावः । नकारपाठे पदच्छेदेन काक्का व्याख्येयमाद्यव्याख्यावत् ॥
 

 
पंतितेंऽशुके स्तनार्पितहस्तां तां निबिडजघनपिहितोरुम् ।
 

रदपदविकलित फूत्कृतिशतधुतदीपां मनः स्मरति ॥ ३६८ ॥

 
पतितेति । अंशुके पतिते सति स्तनस्थापितहस्ताम् । अत्यन्तं जघनाच्छादितोरुम् ।

ओष्ठयोर्विकलतामाप्ता या फूत्कृतिः । अत एव तच्छतेन कम्पितः, न तु निर्वापितः, दीपो

यया ताम् । लज्जाभयवशादिति भावः । तां पूर्वानुभूतां नायिकां मनः स्मरति । एव-

मेव किमिति स्थितोऽसीति वादिनं कंचित्प्रति कस्यचिदुक्तिरियम् ॥
 

 
संकेतितक्रीडाचलमौलिकुञ्जे नायकः समधिवसतीत्यतस्त्वरया तत्र गन्तव्यमिति

ज्ञापयितुमन्येषां च गमने भीतिमुपदर्शयन्ती दूती नायिकां वक्ति-
-
 
परितः स्फुरितमहौषधिमणिनिकरे केलितल्प इव शैले ।

काञ्चीगुण इव पतितः स्थितैकरत्नः फणी स्फुरति ॥ ३६९ ॥

 
परित इति । हेखि, केलिशयनीय इव समन्तात्सप्रकाशौषधिमणिसमूहवति

शैले। पक्षे महौषधितुल्यमणिसमूहवतीत्यर्थः । काञ्चीसूत्रमिव पतितश्चासौ स्थितैकर-

"त्नश्च फणी स्फुरति । एवं च दीपादिस्थानाभिषिक्तौषधिसप्रकाशे विविधपल्लवादिमृदु-

शय्याशालिनि क्रीडाशैले निरन्तरजघनसङ्गयोग्यश्चिरागमनतया त्वदनागमनेन सालस
 
तथा स्वदमागमा
 
San Gurgeshwari Diginal Foundation
 

-----------------------------------------------------------------------------------------
१. पतितेल्याद्यार्या केषुचित्पुस्तकेषु नास्ति.
 
आ० स० १२