2023-03-18 15:12:46 by Pathan Vali Khan
This page has been fully proofread once and needs a second look.
परीति। हे अलसाक्षि । गर्भभरालसत्वादिति भावः । परिवृत्तनाभि । लुप्तत्रि-
वलि । श्यामचूचुकम् । बहोह्व्यो धवला जघने नखरेखा यस्मिमिंस्तत् । गर्भे जघने कण्डू-
तेर्जायमानत्वादिति भावः । सर्वमेतत्परिपक्वगर्भचिह्नम् । ते एवंविधं शरीरं पुरुषायितं
विपरीतरतम् । तत्करणसमर्थेथं न । एवं चाधुना प्राग्वद्विपरीतरतं न विधेयमिति
व्यज्यते ॥
सखी नायकोत्साहवर्धनाय नायिकां वक्ति--
प्रारब्धनिधुवनैव स्वेदजलं कोमलाङ्गि किं वहसि ।
ज्यामर्पयितुं नमिता कुसुमास्त्रधनुर्हतेव मधु ॥ ३६४ ॥
प्रारब्धेति । आरब्धसुरतैव । अत्रोपसर्गोऽनुचितः । हे कोमलाङ्गि, स्वेदजलम् ।
जलपदमाधिक्यं द्योतयति । वहसि । इदं तत्किम् । नोचितमित्यर्थः । सज्जीकर्तुतुं न-
मिता कुसुमास्त्रस्य मदनस्य धनुर्हलतेव मधु । एवं च सुरतारम्भ एवैतादृशश्रमः, तत्राप्ग्रे
कथं भविष्यतीति नायिकायां सौकुमार्यमावेद्यते । तेन चैतादृशी नायिका दुर्लभतरेति ।"
मदनधनुर्लंतासमताप्रतिपादनेनानयैव मदनस्य जगज्जय इति प्रतिपादनेनेतरनायिकाव्य-
तिरेको ध्वन्यते । यद्वारब्धनिधुवनैवेत्यनेनैतस्या अयं स्वभावो यत्सुरतादावेव श्रमो नो-
त्तरकालमिति ज्ञापनेन यथेच्छं भीतिमपहाय सुरतसंगरो विधेय इति नायकं प्रति व्य
ज्यते । नायकोक्तिरियं वा ॥
जायाजितोऽयमित्यपकीर्तिभाषिसर्वलोकावगणनां विधायापि मया त्वदधीनतयैव
स्थीयत इति ज्ञापयितुं भङ्गग्यन्तरेण नायको नायिकां वक्ति--
पुंसां दर्शय सुन्दरि मुखेन्दुमीषत्त्रपामपाकृत्य ।
जायाजित इति रूढा जनश्रुतिर्फेमे यशो भवतु ॥ ३६५ ॥
पुंसामिति । हे सुन्दरि, लज्जां दूरीकृत्य स्वमुखचन्द्रमितरनायकानामीषद्दर्शय ।
एवं च लज्जापरित्यागस्यैतत्फलं यदीषन्मुखदर्शनमित्य यन्त त्यन्तलज्जावत्त्वमावेद्यते । ईषत्त्र-
पामपाकृत्येत्यपि योजना । चन्द्रपदेन दर्शनीयत्वमावेद्यते । तत्फलमाह--जायया जित
इति ख्यातो जनवादो मे यशो भवतु । एवं च त्वदीयैतादृशसौन्दर्योत्कर्षेषं दृष्ट्वैतादृशना-
यिकाजितत्वमत्यन्तपुण्योद्रेकलभ्यमिति यशसे भवत्विति भावः । एवं च त्वमेतादृशसौ-
न्दर्यशालिनीति ध्वन्यते । एवं चैतादृशे मयि कोपकरणमनुचितमित्यावेद्यते ॥
यद्यपि घटनाविधाननिपुणा दूती, संतापापनोदको नायकश्च वर्वर्ति, तथापि निर्ब-
न्धशालितयास्माकं न किंचिदपि फलमिति काचिद्वक्ति--
प्रसरतु शरस्त्रियामा जगन्ति धवलयतु धाम तुहिनांशोः ।
पञ्जरचकोरिकाणां कणिकाकल्पोऽपि न विशेषः ॥ ३६६ ॥
प्रसरत्विति । शरत्कालीना रात्रिः प्रसरतु । तुहिनांशोधम जगन्ति धवलयतु ।
वलि । श्यामचूचुकम् । ब
तेर्जायमानत्वादिति भावः । सर्वमेतत्परिपक्वगर्भचिह्नम् । ते एवंविधं शरीरं पुरुषायितं
विपरीतरतम् । तत्करणसमर्
व्यज्यते ॥
सखी नायकोत्साहवर्धनाय नायिकां वक्ति--
प्रारब्धनिधुवनैव स्वेदजलं कोमलाङ्गि किं वहसि ।
ज्यामर्पयितुं नमिता कुसुमास्त्रधनुर्हतेव मधु ॥ ३६४ ॥
प्रारब्धेति । आरब्धसुरतैव । अत्रोपसर्गोऽनुचितः । हे कोमलाङ्गि, स्वेदजलम् ।
जलपदमाधिक्यं द्योतयति । वहसि । इदं तत्किम् । नोचितमित्यर्थः । सज्जीकर्
मिता कुसुमास्त्रस्य मदनस्य धनुर्
कथं भविष्यतीति नायिकायां सौकुमार्यमावेद्यते । तेन चैतादृशी नायिका दुर्लभतरेति ।
मदनधनुर्लंतासमताप्रतिपादनेनानयैव मदनस्य जगज्जय इति प्रतिपादनेनेतरनायिकाव्य-
तिरेको ध्वन्यते । यद्वारब्धनिधुवनैवेत्यनेनैतस्या अयं स्वभावो यत्सुरतादावेव श्रमो नो-
त्तरकालमिति ज्ञापनेन यथेच्छं भीतिमपहाय सुरतसंगरो विधेय इति नायकं प्रति व्य
ज्यते । नायकोक्तिरियं वा ॥
जायाजितोऽयमित्यपकीर्तिभाषिसर्वलोकावगणनां विधायापि मया त्वदधीनतयैव
स्थीयत इति ज्ञापयितुं भङ्
पुंसां दर्शय सुन्दरि मुखेन्दुमीषत्त्रपामपाकृत्य ।
जायाजित इति रूढा जनश्रुतिर्
पुंसामिति । हे सुन्दरि, लज्जां दूरीकृत्य स्वमुखचन्द्रमितरनायकानामीषद्दर्शय ।
एवं च लज्जापरित्यागस्यैतत्फलं यदीषन्मुखदर्शनमित्य
पामपाकृत्येत्यपि योजना । चन्द्रपदेन दर्शनीयत्वमावेद्यते । तत्फलमाह--जायया जित
इति ख्यातो जनवादो मे यशो भवतु । एवं च त्वदीयैतादृशसौन्दर्योत्कर्