This page has not been fully proofread.

१२८
 
काव्यमाला ।
 
परीति। हे अलसाक्षि । गर्भभरालसत्वादिति भावः । परिवृत्तनाभि । लुप्तत्रि-

वलि । श्यामचूचुकम् । बहो धवला जघने नखरेखा यस्मिस्तत् । गर्भे जघने कण्डू-

तेर्जायमानत्वादिति भावः । सर्वमेतत्परिपक्वगर्भचिह्नम् । ते एवंविधं शरीरं पुरुषायितं

विपरीतरतम् । तत्करणसमर्थे न । एवं चाधुना प्राग्वद्विपरीतरतं न विधेयमिति

व्यज्यते ॥
 

 
सखी नायकोत्साहवर्धनाय नायिकां वक्ति -
 
--
 
प्रारब्धनिधुवनैव स्वेदजलं कोमलाङ्गि किं वहसि ।

ज्यामर्पयितुं नमिता कुसुमास्त्रधनुर्हतेव मधु ॥ ३६४ ॥
 

 
प्रारब्धेति । आरब्धसुरतैव । अत्रोपसर्गोऽनुचितः । हे कोमलाङ्गि, स्वेदजलम् ।

जलपदमाधिक्यं द्योतयति । वहसि । इदं तत्किम् । नोचितमित्यर्थः । सज्जीकर्तु न-

मिता कुसुमास्त्रस्य मदनस्य धनुर्हतेव मधु । एवं च सुरतारम्भ एवैतादृशश्रमः, तत्राप्रे

कथं भविष्यतीति नायिकायां सौकुमार्यमावेद्यते । तेन चैतादृशी नायिका दुर्लभतरेति ।"

मदनधनुर्लंतासमताप्रतिपादनेनानयैव मदनस्य जगजय इति प्रतिपादनेनेतरनायिकाव्य-

तिरेको ध्वन्यते । यद्वारब्धनिधुवनैवेत्यनेनैतस्या अयं स्वभावो यत्सुरतादावेव श्रमो नो-

त्तरकालमिति ज्ञापनेन यथेच्छं भीतिमपहाय सुरतसंगरो विधेय इति नायकं प्रति व्य

ज्यते । नायकोक्तिरियं वा ॥
 

 
जायाजितोऽयमित्यपकीर्तिभाषिसर्वलोकावगणनां विधायापि मया त्वदधीनतयैव

स्थीयत इति ज्ञापयितुं भङ्गयन्तरेण नायको नायिकां वक्ति-
-
 
-
 
पुंसां दर्शय सुन्दरि मुखेन्दुमीषत्रपामपाकृत्य ।
 

जायाजित इति रूढा जनश्रुतिर्फे यशो भवतु ॥ ३६५ ॥
 

 
पुंसामिति । हे सुन्दरि, लज्जां दूरीकृत्य स्वमुखचन्द्रमितरनायकानामीषदर्शय

एवं च लज्जापरित्यागस्यैतत्फलं यदीषन्मुखदर्शनमित्य यन्त लज्जावत्वमावेद्यते । ईषत्र-

पामपाकृत्येत्यपि योजना । चन्द्रपदेन दर्शनीयत्वमावेद्यते । तत्फलमाह-जायया जित

इति ख्यातो जनवादो मे यशो भवतु । एवं च त्वदीयैतादृशसौन्दर्योत्कर्षे दृष्तादृशना-

यिकाजितत्वमत्यन्तपुण्योद्रेकलभ्यमिति यशसे भवत्विति भावः । एवं च त्वमेतादृशसौ-

न्दर्यशालिनीति ध्वन्यते । एवं चैतादृशे मयि कोपकरणमनुचितमित्यावेद्यते ॥
 

 
यद्यपि घटनाविधाननिपुणा दूती, संतापापनोदको नायकश्च वर्वति, तथापि निर्ब-

न्धशालितयास्माकं न किंचिदपि फलमिति काचिद्वक्ति -
 
--
 
प्रसरतु शरत्रियामा जगन्ति धवलयतु धाम तुहिनांशोः ।

पञ्जरचकोरिकाणां कणिकाकल्पोऽपि न विशेषः ॥ ३६६ ॥

 
प्रसरत्विति । शरत्कालीना रात्रिः प्रसरतु । तुहिनांशोधम जगन्ति धवलयतु ।
Sri Gurgeshwari Diginal Sundation