This page has not been fully proofread.

आर्यासप्तशती ।
 
१२७
 
शेषतो दूरीकरोति । मानम् । नायिकया कृतमिति भावः । मर्दयति । निर्वृतिं हरति ।

दुःखं जनयतीत्यर्थः । नायिकाया एवेति भावः । नायिकाकृताञ्शपथान् । यद्यहमधुना-

नेन सह संभाषणमपि करिष्ये तर्हि विरचितातनुचरणपरिचरणं विफली करिष्य इत्ये-

वमादीन् । निहन्ति । उपसर्गेण स्वकृतशपथस्मृतिबीजसंस्काराभावो व्यज्यते । जाग-

रेण दीर्घा रात्रिः । हे सुभग । अचेतनयापि निशयानुकूल्यसंपादनादिति भावः । जाग-

रेण दीर्घा निशा यस्या इति वा ॥
 

 
सखी नायिकावृत्तमपरसखीं वक्ति-
-
 
-
 
प्रिय आयाते दूरादभूत इव संगमोऽभवत्पूर्वः ।

मानरुदितप्रसादाः पुनरासन्नपरसुरतादौ ॥ ३६१ ॥
 

 
प्रिय इति । प्रिये, न तु पत्यौ । दूरादायाते । एवं च विरहवत्त्वमावेद्यते । प्रथमः

सङ्गोऽसंजातप्राय इवाभवत् । द्वितीयसुरतारम्भे मानरुदितप्रसादाः । पुनस्त्वर्थे । अभ-

वत् । एवं च संगमस्याप्यज्ञानादत्यन्तमन्मथविकारशालित्वमावेद्यते । स्वभाववर्णनमेतत् ॥

 
सखी नायिकां वक्ति-
-
 
पूर्वमहीधरशिखरे तमः समासन्नमिहिरकरकलितम् ।
 

शूलप्रोतं सरुधिरमिदमन्धकवपुरिवाभाति ॥ ३६२ ॥

 
पूर्वेति । उदयाचलमस्तके निकटवर्त्यरुणकिरणकवलितमिदं तमः शूलाग्रप्रोतसरु-

घिरान्धकनामकदैत्यशरीरमिव शोभते । एवं च प्रातःकालः संवृत्तः, अत उपपतिनि:-

सार्यतामिति द्योत्यते । नायकसहचरवचनमिदं वा । एवं चाधुना निर्गन्तव्यमिति भी-

तिप्रदर्शनपुरःसरं व्यज्यते । अथवा नायिकायाः पद्मिनीलात्सूर्योदयोत्तरं सुरतविधा-

नस्यौचित्येन सूर्योदयः सत्वरमेव भविष्यतीति ज्ञापकमिदं नायिकासहचरीवाक्यम् । यद्वा

नायको नायिकां वक्ति । अक्षरच्युतकालंकारवदक्षरपूर्वकस्यापि युक्तितौल्यादलंकार-

तया पूर्वमहीधरशिखर इत्यस्याभिनवस्तनाग्र इत्यर्थः । संलग्नकाश्मीरदीप्तिकलितमिदं

केशजातं शूलाग्रप्रोतरुधिराक्तान्धकासुरवपुरिव । तस्य श्यामलादिति भावः । आ-

भाति । एवं च विपरीतरतसमप्रसंजातमुक्तिमुख चुम्बननमनकुचशिखरनिपतितकेशक-

लापवत्तयातिशयितशोभास्ति, अत एवमेव केशकला पावस्थितिरास्तामिति व्यज्यते ।

तेन च विपरीतरतान विरतिर्विधेयेति । ननु शृङ्गारबीभत्सयोर्विरोधात्कथमत्रोभयनिव-

न्धनमिति चेत् 'स्मर्यमाणो विरुद्धोऽपि साम्येनाथ विवक्षितः । अङ्गिन्यङ्गत्वमाप्तौ यौ

तौ न दुष्टौ परस्परम् ॥' इत्युक्त्या यथा तथाविधान्धकवपुश्चमत्करोति तथैवंविधकेश-

कलाप इति साम्यप्रतिपादनेन दोषाभावात् ॥
 

 
सखी नायिकां शिक्षयति-
-
 
परिवृत्तनाभि लुप्तत्रिवलि श्यामस्तनाग्रमलसाक्षि

बहुधवलजघनरेखं वपुर्न पुरुषायितं सहते ॥ ३६३ ॥
 
·
 
GDF
 
Sri Gurgeshwari Digital Foundation