This page has been fully proofread once and needs a second look.

प्रातरिति । प्रातः समीपमागत्य मृषाभाषिणः । नाहमन्यत्र गत इति । अस्य । प्रि-
यस्येत्यनुपादानादत्यन्तदुःखवत्त्वं ध्वन्यते । लज्जा न विद्यते । ननु वास्तवं न गत एव
भविष्यतीत्यत आह — योऽयं वदनलग्नया दग्धकालिकया । नयनचुम्बनजन्ययेति भावः ।
दग्धपदेन तस्या द्वेषविशेषवत्तावेद्यते । न लज्जते । एवं च प्रात्यक्षिकरतचिह्नवत्वान्मि-
थ्याभाषित्वं दृढीक्रियते । अथ च श्याममुखत्वेऽपि परिहारकारकतया निर्लज्जत्वं
द्योत्यते ॥
 
सखी नायिकां वक्ति--
 
पश्योत्तरस्तनूदरि फाल्गुनमासाद्य निर्जितविपक्षः ।
वैराटिरिव पतङ्गः प्रत्यानयनं करोति गवाम् ॥ ३५८ ॥
 
पश्येति । हे कृशोदरि, उत्तरा दिगस्त्यस्य । अर्शआदित्वादच् । उत्तरदिक्संबन्धी ।
पक्ष उत्तर इति तन्नाम । निर्जितहिमादिविपक्षः । पक्षे विपक्षः सुयोधनादिः । पतङ्गः
सूर्यः । फाल्गुनं मासम् । पक्षेऽर्जुनम् । प्राप्य विराटापत्यमिव गवां किरणानाम् । पक्षे
धेनूनाम् । परावृत्तिं करोति । हेमन्तापगमात्तेजोविशेषशालितया किरणप्रत्यायनोक्तिः 1
एवं च हेमन्ते गतेऽपि वसन्तादाववश्यं मदनमहत्तरशरसंत्रस्तस्तव प्रियः समायास्यतीति
व्यज्यते । यद्वा यथा फाल्गुनसाहाय्येन वैराटिना गावः परावृत्त्यानीताः पतङ्गेन किरणाः,
तथा त्वमपीदानींतनैतादृशसमयसाहाय्येन नायकचित्तस्याङ्गनातः परावृत्तिं विधेहीति
ध्वन्यते । श्लेषमात्रमत्रेति ऋजवः । केनचित्कस्यचित्साहाय्येन स्वकीयं गतं वस्त्वानीयत
इत्यन्योक्तिरपि ॥
 
नायको नायिकां वक्ति--
 
प्रमदवनं तव च स्तनशैलं मूलं गभीरसरसां च ।
जगति निदाघनिरस्तं शैत्यं दुर्गत्रयं श्रयति ॥ ३९ ॥
 
प्रमदेति । अन्तःपुरसमीपवनं प्रकृष्टमदकारि वनं वा । त्वदीयस्तनशैलम्, गभीरस-
रसां मूलमिति दुर्गत्रयं निदाघेन ग्रीष्मेण जगति निरस्तं शैत्यं श्रयति । एवं च नितरां
दाघो यस्मादिति व्युत्पत्त्या मदनसंतापसंतप्तस्य मम त्वत्कुचावेव शरणाविति व्यज्यते।
तेन च त्वं मदङ्गीकारं कुर्विति । अन्योऽपि केनचित्पराभूतो वनशैलजलदुर्गाश्रयेण जी-
वतीति लौकिकम् । अत्र किं किं दुर्गमिति विशेषकर्माकाङ्क्षायां प्रमदेत्यादि । एवं च
निदाघकाले शैत्यं स्थलत्रयेऽधिवसतीति भावः ॥
 
नायिकासखी नायकं वक्ति--
 
प्रोञ्छति तवापराधं मानं मर्दयति निर्वृतिं हरति ।
स्वकृतान्निहन्ति शपथाञ्जागरदीर्घा निशा सुभग ॥ ३६० ॥
 
प्रोञ्छतीति । त्वत्कृतापराधम् । एकत्वमविवक्षितम् । प्रोञ्छति । एवं च निः-