This page has not been fully proofread.

आर्यासप्तशती ।
 
१२५
 
पतीति । पतिः, न तु प्रियः । तत्पुलकैः प्रेमजन्यसात्त्विकभावरूपैः खिन्नानि
गात्राणि यस्याः सा । एवं चातिकोमलाङ्गीत्वं व्यज्यते । खस्य छायाया वीक्षणे सभ-
यापि या । अपिः प्रागप्यन्वेति । सा कण्टकं दलयन्ती । कंण्टकमित्येकत्वमविवक्षितम् ।
अन्धकारे त्वामभिसरति । हे सुभग । एतादृशनायिकाया एतादृशाभिसरणवत्त्वादिति
भावः । खच्छायेत्यनेन परसंसर्गराहित्येनातिप्रामाणिकत्वं द्योत्यते । तेन चैतादृश्यपि
त्वय्यासक्ते त्यतस्त्वया न कदापीयं परित्याज्येति ॥
 
अक्षक्रीडनं विधेयमधुनेति वादिनीं नायिकां नायको वक्ति-
प्रतिभूः शुको विपक्षे दण्डः शृङ्गारसंकथा गुरुषु ।
 
पुरुषायितं पणस्तद्वाले परिभाव्यतां दायः ॥ ३५४ ॥
 
प्रतिभूरिति । शुकः । एवं चान्यथाकरणशीलाभावो व्यज्यते । प्रतिभूर्लग्नकः । गुरुषु
शृङ्गारस्य कथनमेव विपक्षे उक्ताकरणेऽयमेव दण्डः । पुरुषायितं विपरीतरतं पणः परा-
जये देयं वस्तु । तत्तर्हि बाले दायः पाशपातनं परिभाव्यतां क्रियताम् । एवं चाक्षक्री-
डने यदि तवास्ति रतिस्तर्ह्यनया रीत्याक्षक्रीडनं विधेयमिति भावः । एवं च रत्युत्कण्ठा
ध्वन्यते । अत्र बालापदेन मुग्धा न विवक्षिता । तस्यास्त्वेवंविधप्रागल्भ्याभावात् ॥
कयाचन विलोकितः कश्चित्तां प्रत्याह-
परमोहनाय मुक्तो निष्करुणे तरुणि तव कटाक्षोऽयम् ।
 
विशिख इव कलितकर्णः प्रविशति हृदयं न निःसरति ॥ ३१९ ॥
परेति । उत्कृष्टसुरताय । 'मोहनं नारभेत्तावत्' इत्यादि कामतन्त्रे मोहनशब्दस्य
सुरतार्थकत्वेन कथनात् । यद्वोत्कृष्टभ्रान्त्यै । अथवान्यस्य वश्यतासंपादनाय । पक्षे शत्रु-
मूर्छायै मरणायेति वा । मुक्तः । कलितः कर्णो येन । आकर्णविशाल इत्यर्थः । पक्षे
कर्णान्ताकृष्ट इत्यर्थः । तव कटाक्षो बाण इव हृदयं प्रविशति । न निःसरति । हे
तरुणि । एवं च बलवत्प्रेरितत्वेन दुःसहत्वं ध्वन्यते । अत एव निर्गतकरुणे । कलितकर्ण
इत्यनेन संपूर्णाकर्षणेन भेदविशेषकर्तृत्वं द्योत्यते । एवं चाहं त्वदायत्त इति व्यज्यते ॥
सखी नायकं प्रति वक्ति-
प्रपदालम्बितभूमिश्रुम्बन्ती प्रीतिभीतिमधुराक्षी ।
 
प्राचीराग्रनिवेशितचिबुकतया न पतिता सुतनुः ॥ ३९६ ॥
प्रपदेति । पदाग्रावलम्बितभूमिः। प्रीतिभयाभ्यां मनोज्ञनयना। त्वां चुम्बन्ती सुतनुः।
एवं च सङ्गयोग्यत्वं ध्वन्यते । वृत्यप्रस्थापितचिबुकभावेन न पतिता । एवं च साहस.
कारित्वमावेद्यते ॥
 
नायिका सखीं वक्ति-
प्रातरुपागत्य मृषा वदतः सखि नास्य विद्यते ब्रीडा
मुखलग्नयापि योऽयं न लज्जते दग्धकालिकया ॥ ३१७ ॥
 
HDF
 
Sri Gurgeshwari Digital Fouenturion