This page has been fully proofread once and needs a second look.

एवं च बुद्धिविशेषवतोऽपि तव यत्र मत्सखीकरतलाकलित ललित प्रतिबिम्बित वदनारवि-
न्दादर्शे लीलाकमलभ्रमः, तत्रास्मद्विधानामीदृशभ्रमवत्तायां किमपूर्वमिति व्यज्यते । तेन
च नायिकासौन्दर्यम् । अत्र च नायिकावदनप्रतिबिम्बभरितत्वादादर्श एव लीलाकमल-
भ्रमः । 'सुमुखि' इति पाठे नायको नायिकां वक्ति । सुमुखीत्यनेन कमलभ्रान्तिज-
नकत्वमावेद्यते ॥
 
सखी मानवतीं नायिकां वक्ति--
 
प्राचीनाचलमौलेर्यथा शशी गगनमध्यमधिवसति ।
त्वां सखि पश्यामि तथा छायामिव संकुचन्मानाम् ॥ ३५१ ॥
 
प्राचीनेति । हे सखि, प्राक्प्राच्यां भवो योऽचलः । पूर्वाचल इत्यर्थः । तन्मस्तका-
द्यथा चन्द्रो गगनमध्यमधिवसति तथा छायामिव त्वाम् । संकुचन्मानः प्रियापराधजन्य-
चेष्टारूप: । पक्षे परिमाणं यस्या एतादृशीम् । पश्यामि । अत्रोभयत्र वीप्सा युकेक्तेत्या-
भाति । एवं च यथा यथा चन्द्रप्रकाशातिशयस्तथा तथोद्दीपनातिशयेन मानक्षीणता
भवतीत्यत इदानीं तव समयो गतः पुनर्नायास्यतीत्यत इदानीमेव त्वं तं परित्यज्य यथेच्छं
नायकेन सह रमस्वेति व्यज्यते । यथा यथा शशी गगनमध्यमधिवसतिं करोति तथा
तथा छायापि संकुचिता भवति ॥
 
कथमागतेन तेन सह संगतिः स्थलाभावान्न वृत्तेति वादिनीं सखीं नायिका वक्ति--

प्राङ्गणकोणेऽपि निशापतिः स तापं सुधामयो हरति ।

यदि मां रजनिज्वर इव सखि स न निरुणद्धि गेहपतिः ॥३२॥
 
प्राङ्गणेति । हे सखि, प्रकृष्टमङ्गणं तत्कोणेऽपि । एवं च स्थलसत्त्वमावेद्यते । स
तद्वारकसंकेतशाली । सुधामृतं तत्प्रचुरः । संतापापनोदकत्वादिति भावः । निशापति-
श्चन्द्रः । अथ च निशायां पतिः । उपपतिरित्यर्थः । तापं हरति । यदि मां रात्रिज्वर
इव स दुष्टत्वेन प्रसिद्धो गेहपतिः, न तु प्रियः । न निरुणद्धि । एवं च यदि न तेन रात्रौ
निरोधः कृतः स्यात्तदा क्वचिदङ्गणकोणेऽपि मया तेन सह रतं कृतं स्यादित्यावेद्यते ।
एवं च न ममापराध इति । तेन चैतत्क्षन्तव्यमिति प्रार्थना । ज्वर इवेत्युपमया नायकं
प्रति स्वस्यासामर्थ्यं व्यज्यते । ज्वरवतो बहिर्निःसरणं निशि निषिद्धमिति वैद्यकम् ।
यद्वा गेहपतिरित्यनेन गेहस्थितवस्तुसंरक्षणकर्तृत्वं न मद्रक्षणकर्तृत्वम् । अतो दैवादद्य
गृहवस्तुसंरक्षणप्रवृत्तेन द्रुतमेव गृहकपाटा दिदानेन ममापि रक्षणं जातम् । अतः श्वस्तथा य-
तिष्ये यथावश्यं तेन सह संगमो भविष्यतीति ध्वन्यते । 'साधु चन्द्रमसि पुष्करैः कृतं मीलि-
तं यदभिरामताधिके' इतिवदुत्तरवाक्यान्तर्गतस्य यच्छब्दस्य तच्छब्दापेक्षेति बोध्यमत्र ॥
 
सखी नायकं प्रति नायिकाप्रेमाधिक्यं वक्ति--
 
पतिपुलकदूनगात्री स्वच्छायावीक्षणेऽपि या सभया ।
अभिसरति सुभग सा त्वां विदलन्ती कण्टकं तमसि ॥ ३५३ ॥