This page has not been fully proofread.

आर्यासप्तशती ।
 
१२३
 
त्यादि योजना । एवं च यत्र
 
प्रियसंगमसूचकस्फुरणवदचेतनवामबाहुलतायाः
 
किं किं
 

न क्रियते विरहवत्या तत्र किमु वाच्यं सद्यः प्रियसमागमकारिण्या दूत्या इति भावः । अत

एव प्रणामान र्हत्वव्यञ्जकं वामपदमर्थवत् ॥

 
काचन कंचित्प्रति वक्ति-
-
 
प्रविशसि न च निर्गन्तुं जानासि व्याकुलत्वमातनुषे ।
 

बालक चेतसि तस्याश्चक्रव्यूहेऽभिमन्युरिव ॥ ३४८ ॥

 
प्रविशसीति । हे बालक । एवं च ज्ञानशून्यत्वं व्यज्यते । चक्रव्यूहेऽभिमन्युरिव

तस्याश्चेतसि त्वं प्रविशसि । व्याकुलत्वं पीडामातनुषे । निर्गन्तुं न च जानासि । एवं

च सा त्वय्यत्यन्तमासक्ता त्वमेवाज्ञत्वमाचरसीति व्यज्यते । यद्वा त्वं व्याकुलतां कुरुषे ।

एवं चैतस्या हस्तात्तव न निर्गम इत्यावेद्यते ॥
 

 
समीचीनानां समीचीनोऽसमीचीनानामसमीचीन एवाश्रय इति कश्चिदन्योक्त्या

वक्ति-
-
 
पश्यानुरूपमिन्दिन्दिरेण माकन्दशेखरो मुखरः ।
 

अपि च पिचुमन्दमुकुले मौकुलिकुलमाकुलं मिलति ॥ ३४९ ॥

 
पश्येति । हे सखि, इन्दिन्दिरेण भ्रमरेण । एकत्वमविवक्षितम् । माकन्दस्य । 'मा-

कन्दः सहकारोऽस्त्री' इत्यनुशासनाच्चूतस्य मस्तको मुखरः । अन्यच्च पिचुमन्दस्य ।

'पिचुमन्दश्च निम्बः" इत्यमरः । तन्मुकुले मौकुलीनाम् । 'एकदृष्टिश्चिरंजीवी मौकुलि-

द्विक इत्यपि' इति क्षीरखामी । काकानां समूहः । आकुलमिति क्रियाविशेषणम् ।

मिलति । इदमनुरूपं त्वं पश्य । एवं च यथायोग्य एवाश्रयो भवतीति भावः । यद्वा

समीचीनानामन्यादृशरी त्यार्जनमसमीची नानामन्यादृशरीत्या भवतीति कश्चिदन्योक्त्या

वक्ति । माकन्दत्वेन परिमलबहुलत्वं तेन च गमनयोग्यत्वं ध्वन्यते । शेखरो मुखर

इत्यनेन संनिधिसंस्थित्या पाण्डित्यप्रदर्शनद्वारार्जनकारित्वमावेयते । यद्वा शिखरस्थि-

तिप्रतिपादनेन प्रतिष्ठावत्त्वं द्योत्यते । मुकुल इत्येकवचनेनातिवल्पत्वमाकुल इत्यनेना-

धैर्यवत्वप्रतिपादनेन प्रतिष्ठा वैधुर्यवत्वं ध्वन्यते । एवं च यथा भ्रमरकाकयोरर्जने भेदस्तथा

समीचीनासमीचीनयोरिति ध्वन्यते । अथवा समुदायसंपादनपुरःसरातिलौल्येऽपि न

किंचित्फलं नीचानामेकस्य समीचीनस्यापि फलं भवतीत्यन्योक्त्या कश्चिद्वति ॥

 
सखी नायकसमक्षं नायिकां कयाचन भङ्गया स्तौति -
 
-
 
प्रतिबिम्बसंभृताननमादर्श सुमुख मम सखीहस्तात् ।
 

आदातुमिच्छसि मुधा किं लीलाकमलमोहेन ॥ ३५० ॥

 
प्रतीति । हे सुमुख, प्रतिबिम्बेन संभृतं व्याप्तमाननं यस्मिंस्तमादर्शम् । एवं च

प्रतिबिम्बभवनयोग्यत्वं ध्वन्यते । लीलाकमलभ्रान्त्या मम सखीकराद्र्था । लीलाकम-

लाभावादिति भावः । ग्रहीतुं किमितीच्छसि । सुमुखेत्यनेन बुद्धिशालित्वमावेद्यते ।