This page has not been fully proofread.

काव्यमाला ।
 
तरुणान्स्वाधीनीकरोषि
 
। अत्र दृष्टान्तमाह – मदनस्य तिरस्कृतास्त्रशस्त्रा मल्लविद्येव ।
सापि शारीरकर्तव्यतैव जयकर्त्रीति भावः । एवं च मा विलम्बं कुर्विति व्यज्यते ॥
काचिन्नायिका सखीं प्रत्याह-
नेत्राकृष्टो भ्रामं भ्रामं प्रेयान्यथा यथास्ति तथा ।
 

 
सखि मन्थयति मनो मम दुधिभाण्डं मन्थदण्ड इव ॥ ३४४ ॥
नेत्रेति । नेत्रेण चक्षुषाकृष्टः । पक्षे गुणेन । 'नेत्रमक्षिण गुणेऽपि च' इत्यभिधा-
नात् । भ्रान्त्वा भ्रान्त्वा प्रेयान् । एवं च मनः संलग्नतायोग्यत्वं व्यज्यते । यथा य-
थास्ति तथा मन्थदण्डो दधिपात्रमिव मम मनो मन्थयति । एवं च मया कटाक्षित
इतस्ततो मत्सविधभ्रममाणस्त्वया सत्वरं संगमनीयो येन मनोदुःखं दूरीभविष्यतीति
व्यज्यते ॥
 
दूती नायकं प्रत्याह-
१२२
 
-
 
नानावर्णकरूपं प्रकल्पयन्ती मनोहरं तन्वी ।
 
चित्रकरतूलिकेव त्वां सा प्रतिमित्ति भावयति ॥ ३४५ ॥
नानेति । चित्रलेखकहस्तगतलेखनीवत्सा तन्वी कृशाङ्गी सूक्ष्मा च भित्तौ भित्तौ
मनोज्ञं नानाप्रतिमारूपम् । पक्षे नानावर्णा एव नानावर्णकानि तैः कृत्वा रूपं यस्यैतादृशं
चित्रं प्रकल्पयन्ती भावयन्ती । एवं च चित्रविलोकनव्याजेन त्वामेव भावयतीति भावः ॥
इत्यनन्तपण्डितकृतगोवर्धनसप्तशतीव्यङ्गपार्थदीपनया समेता नकारव्रज्या ।
 
पकारव्रज्या ।
 
कस्याविद्वचनमात्रादेव भीतान्प्रति कचिदन्योक्त्या वक्ति-
पथिकासक्ता किंचिन्न वेद घनकलमगोपिता गोपी ।
 
केलिकलाहुंकारैः कीरावलि मोघमपसरसि ॥ ३४६ ॥
पथिकेति । पथिके आसक्ता । घनाः कलमाः श्वेतशालयस्तैर्गोपिता । घनपदेन
किंचिद्भक्षणेऽपि ज्ञानायोग्यत्वं व्यज्यते । गीपीत्यनेन खतो मौख्य योयते । अतः
केलिकलासंबन्धिहुंकारैः । एवं च न भवन्निवारणार्थमेते शब्दा इति भावः । कीराव-
लीत्यनेन वचनपटुत्वं व्यज्यते । वृथापसरसि । एवं च भवद्भिः कलमभक्षणं विधेय-
मिति भावः । एवं चैतस्याः प्रचुरधनवत्याः सापराधत्वाच्च वचनमात्रभीतिमुत्सृज्य किं-
चिदेतस्याः सकाशाद्ब्रायमिति व्यज्यते ॥
 
नायिकासखी दूर्ती प्रत्याह-

 
प्रणमति पश्यति चुम्बति संश्लिष्यति पुलकमुकुलितैरङ्गैः ।
 
प्रियसङ्गाय स्फुरितां वियोगिनी वामबाहुलताम् ॥ ३४७ ॥
प्रणमतीति । प्रियसंगमसूचकस्फुरणशालिनीं वामबाहुलतां वियोगिनी प्रणमती-
Sri Gargeshwari Digital Foundation