2023-03-13 16:00:03 by Pathan Vali Khan
This page has been fully proofread once and needs a second look.
सहसा मानिनीचरणे मस्तकस्थापनेऽपि भीतिरावेद्यते । एतादृशी हरचन्द्रलेखा जयति ।
युगपदनेककार्यसंपादनादिति भावः ॥
श्रीकरपिहितं चक्षुः सुखयतु वः पुण्डरीकनयनस्य ।
जघनमिवेक्षितुमागतमब्जनिभं नाभिसुषिरेण ॥ १० ॥
श्रीकरेति । पुण्डरीकनयनस्य विष्णोः । श्रीकरपिहितम् । रतरीतिवसनविहीनतया
लजावशादिति भावः । श्रियः करेण । न तु श्रिया । आनन्दाविर्भावादिति भावः ।
अत एव करोतीति कर इति करपदमन्वर्थम् । ततो नाभिरन्ध्रेण । सुषिरपदमन्यानव-
लोकनीयत्वं व्यनक्ति । जघनमीक्षितुमागतमिवेत्युत्प्रेक्षा । एवं च लक्ष्मीजघनदर्शन-
लालसत्वं व्यज्यते । पिधानानर्थक्यं च । अब्जसदृशम् । एवं च नाभिकमलभ्रान्त्या पि-
धानायोग्यत्वमावेद्यते । चक्षुर्वो युष्मान्सुखयतु । पिहितेऽपि हि गोलकेऽन्यमार्गेणाग-
त्य जघनविलोकनकारितया सुखलम्पटत्वेन सुखदानस्य सुखप्राप्तिनिदानतयान्यस्य सुख-
जनकत्वं तस्येति भावः । नन्वत्र पुण्डरीकनयनस्येत्यनेन कमलसादृश्यसिद्धावब्जनि-
भमित्यस्य न तथा प्रयोजनमिति चेन्न । पुण्डरीकनयन इत्यत्र रूढिरेव । यद्वाब्जपदस्य
वक्रतात्पर्यान्यथानुपपत्त्या रक्ताब्जे लक्षणा । एवं च लक्ष्म्याः सिताम्भोजत्वेन नेत्र-
ज्ञानेऽपि रक्ताम्भोजत्वेनाज्ञानात् । तद्रूपाङ्गीकारेण निभृतमार्गेणागमनेन जघनदर्शनका-
रित्वेऽपि न श्रीकरपिहितत्वमिति व्यज्यते । अन्योऽप्यत्यन्तलम्पटो रूपान्तरेण निभृत-
मार्गेण च गत्वा स्वकार्ये साधयतीति लौकिकम् । केचित्तु रत्नमित्युक्ते रक्तरत्नमेवा-
ब्जमित्युक्ते रक्ताब्जमेवोपलक्ष्यते कविसंप्रदायादिति वदन्ति ॥
श्यामं श्रीकुचकुङ्कुमपिञ्जरितमुरो मुरद्विषो जयति ।
दिनमुखनभ इव कौस्तुभविभाकरो यद्विभूषयति ॥ ११ ॥
श्याममिति । श्यामम् । विष्णोः श्यामत्वादिति भावः । श्रीकुचकुङ्कुमपिञ्जरितम् ।
एवं च दृढालिङ्गनमभिव्यज्यते । तन्मुरद्विष उरः । एवं च कठिनत्वमुरसि व्यज्यते ।
तेन च श्रीकठिनकुचकुम्भसंघट्टनसहिष्णुत्वम् । जयति । सर्वोत्कर्षे लक्ष्मीदृढालिङ्गनं
हेतुः । दिनमुखनभ इव । प्रातःकालीननभसः स्वतो नीलिमवत्त्वात्संध्यासंवलितत्वाच्च
तथाविधोरसः सादृश्यम् । कौस्तुभ एव विभाकरः । पक्षे कौस्तुभवद्विभाकरः सूर्यः ।
यदुरो विभूषयति । एवं च त्रिभुवनाधिपतेर्निरीहस्यापि कौस्तुभाभरणधारणमुदरवर्त्य-
नेकलोकयुगपत्प्रकाशविश्रान्तिविधाननिदानतां ध्वनयति । एवं च विभाकरादतिशयो
व्यज्यते कौस्तुभे ॥
प्रतिबिम्बितप्रियातनु सकौस्तुभं जयति मधुभिदो वक्षः ।
पुरुषायितमभ्यस्यति लक्ष्मीर्यद्वीक्ष्य मुकुरमिव ॥ १२ ॥
प्रतीति । सकौस्तुभम् । अत एव प्रतिबिम्बिता प्रियायास्तनुर्यत्र । यन्मुकुरमिव
वीक्ष्य लक्ष्मीः पुरुषायितं विपरीतरतमभ्यस्यति । तन्मधुभिदो वक्षः । एवं च दार्ढ्य-