This page has not been fully proofread.

आर्यासप्तशती ।
 

 
सहसा मानिनीचरणे मस्तकस्थापनेऽपि भीतिरावेद्यते । एतादृशी हरचन्द्रलेखा जयति ।

युगपदनेककार्यसंपादनादिति भावः ॥
 

 
श्रीकरपिहितं चक्षुः सुखयतु वः पुण्डरीकनयनस्य ।

जघनमिवेक्षितुमागतम ब्जनिभं नाभिसुषिरेण ॥ १० ॥
 

 
श्रीकरेति । पुण्डरीकनयनस्य विष्णोः । श्रीकरपिहितम् । रतरीतिवसनविहीनतया

लजावशादिति भावः । श्रियः करेण । न तु श्रिया । आनन्दाविर्भावादिति भावः ।

अत एव करोतीति कर इति करपदमन्वर्थम् । ततो नाभिरन्ध्रेण । सुषिरपदमन्यानव-

लोकनीयत्वं व्यनक्ति । जघनमीक्षितुमागतमिवेत्युत्प्रेक्षा । एवं च लक्ष्मीजघनदर्शन-

लालसत्वं व्यज्यते । पिधानानर्थक्यं च । अब्जसदृशम् । एवं च नाभिकमलभ्रान्त्या पि-

धानायोग्यत्वमावेद्यते । चक्षुर्वो युष्मान्सुखयतु । पिहितेऽपि हि गोलकेऽन्यमार्गेणाग-

त्य जघनविलोकनकारितया सुखलम्पटत्वेन सुखदानस्य सुखप्राप्तिनिदानतयान्यस्य सुख-

जनकत्वं तस्येति भावः । नन्वत्र पुण्डरीकनयनस्येत्यनेन कमलसादृश्यसिद्धावब्जनि-

भमित्यस्य न तथा प्रयोजनमिति चेन्न । पुण्डरीकनयन इत्यत्र रूढिरेव । यद्वाब्जपदस्य

क्रतात्पर्यान्यथानुपपत्त्या रक्ताब्जे लक्षणा । एवं च लक्ष्म्याः सिताम्भोजत्वेन नेत्र-

ज्ञानेऽपि रक्ताम्भोजत्वेनाज्ञानात् । तद्रूपाङ्गीकारेण निभृतमार्गेणागमनेन जघनदर्शनका-

रित्वेऽपि न श्रीकर पिहितत्वमिति व्यज्यते । अन्योऽप्य त्यन्तलम्पटो रूपान्तरेण निभृत-

मार्गेण च गत्वा स्वकार्ये साधयतीति लौकिकम् । केचित्तु रत्नमित्युक्ते रक्तरत्नमेवा-

ब्ज मित्युक्ते रक्ताब्जमेवोपलक्ष्यते कविसंप्रदायादिति वदन्ति ॥
 
-
 

 
श्यामं श्रीकुचकुङ्कुमपिञ्जरितमुरो मुरद्विषो जयति ।
 

दिनमुखनभ इव कौस्तुभविभाकरो यद्विभूषयति ॥ ११ ॥

 
श्याममिति । श्यामम् । विष्णोः श्यामत्वादिति भावः । श्रीकुचकुङ्कुमपिञ्जरितम् ।

एवं च दृढालिङ्गनमभिव्यज्यते । तन्मुरद्विष उरः । एवं च कठिनत्वमुरसि व्यज्यते ।

तेन च श्रीकठिनकुचकुम्भसंघट्टनसहिष्णुत्वम् । जयति । सर्वोत्कर्षे लक्ष्मीदृढालिङ्गनं

हेतुः । दिनमुखनभ इव । प्रातःकालीननभसः खतो नीलिमवत्त्वात्संध्या संवलि तत्वाच्च

तथाविधोरसः सादृश्यम् । कौस्तुभ एव विभाकरः । पक्षे कौस्तुभवद्विभाकरः सूर्यः ।

यदुरो विभूषयति । एवं च त्रिभुवनाधिपतेर्निरीहस्यापि कौस्तुभाभरणधारणमुदरवर्स-

नेकलोकयुगपत्प्रकाश विश्रान्तिविधाननिदानतां ध्वनयति । एवं च विभाकरादतिशयो

व्यज्यते कौस्तुभे ॥
 

 
प्रतिबिम्बितप्रियातनु सकौस्तुभं जयति मधुभिदो वक्षः ।

पुरुषायितमभ्यस्यति लक्ष्मीर्यद्वीक्ष्य मुकुरमिव ॥ १२ ॥
 

 
प्रतीति । सकौस्तुभम् । अत एव प्रतिबिम्बिता प्रियायास्तनुर्यत्र । यन्मुकुरमिव

वीक्ष्य लक्ष्मीः पुरुषायितं विपरीतरतमभ्यस्यति । तन्मधुभिदो वक्षः । एवं च दार्थ-

वन्मुकुर मि