This page has not been fully proofread.

आर्यासप्तशती ।
 
यत्र यत्र यद्यत्सामर्थ्य तत्र तत्र तवैवेत्यन्योक्त्या कश्चित्कंचिद्वक्ति-
नक्षत्रेऽग्नाविन्दावुदरे कनके मणौ दृशि समुद्रे ।
 
यत्खलु तेजस्तदखिलमोजायितमब्जमित्रस्य ॥ ३४१ ॥
 
१२१
 
नक्षत्र इति । अग्नावन्याश्रये । उदरे । अन्नादिपाकतेजसः सत्त्वादिति भावः । क-
नके । तैजसत्वादिति भावः । मणौ । प्रकाशकत्वादिति भावः । समुद्रे । वडवानलस्य
सत्त्वादिति भावः । यत्तेजस्तदखिलमब्जमित्रस्य । एवं च येन सह विरोधस्तेनैव सह
तत्करणमुचितं न त्वन्येनापि सह तत्करणमुचितमिति ज्ञानविशेषशालित्वं ध्वन्यते ।
ओजायितम् । सामर्थ्यमित्यर्थः ॥
 
नायिकादूती नायकं वक्ति-
न सवर्णो न च रूपं न संस्क्रिया कापि नैव सा प्रकृतिः ।
 
बाला त्वद्विरहापदि जातापभ्रंशभाषेव ॥ ३४२ ॥
 
न सवर्ण इति । स पूर्वानुभूतो वर्णः कान्तिः । पक्षे सवर्णकार्यम् । न । न केवलं पू-
र्चकान्तिहानिः, अपि तु न तत्स्वरूपमपीत्याह-
-नच रूपम् । पक्षे प्रकृतिप्रत्ययनिष्पा-
यशब्दखरूपम् । ननूद्वर्तना दिसंस्कारेण कान्तिर्भविष्यतीत्यत्राह-संस्क्रिया न । पक्षे
साधुत्वम् । ननु संस्क्रिया कार्येत्युपदिश्यते न कुतो भवत्येत्यत आह–सा पूर्वानुभूता
कापि स्वल्पापि प्रकृतिः स्वभावो नैव । एवं चोपदेशकरणे भीतिरावेद्यते । पक्षे प्रा-
तिपदिकम् । बाला । एवं चाज्ञत्वं तेन च नायके शठत्वं द्योत्यते । वत्संबन्धिवियोग-
विपत्तौ । एवं च विपन्नस्य पूर्वकान्त्याद्यपगच्छतीति भावः । अपभ्रंशभाषासाधुवा-
क्यम् । यद्वा इवशब्दोऽवधारणार्थकः । अपगतो भ्रंशोऽसमीचीनत्वं यस्या एतादृशी
भाषा यस्यास्तादृश्येव संवृत्ता । एवं च त्वद्विरहजनितदुःखेन पूर्वकान्त्याद्यपगमेऽपि त्व-
द्विषये न कदाप्य सम्यग्वदतीति न तादृशी काप्यन्या सहनशीलेति व्यज्यते । तेन चैता-
दृश्यामौदासीन्यमत्यन्तानुचितमिति ॥
 

 
अलंकारादिकरणेन विलम्बकारिणीं नायिकां संकेतं प्रति सत्वरनिर्गमनाय सखी
 
वक्ति-
न विभूषणे तवास्था वपुर्गुणेनैव जयसि सखि यूनः ।
अवधीरितास्त्रशस्त्रा कुसुमेषोर्मल्लविद्येव ॥ ३४३ ॥
 
नेति । हे सखि । एवं च यथार्हवादार्हत्वं ध्वन्यते । तव । एवं चान्यादृशी गतिर-
न्यासामिति भावः । एवं चान्याभिर्यद्विधीयते तत्स्वयमपि विधेयमिति मनसि न विधे-
यमिति व्यज्यते । विशिष्टभूषणे । एवं च सामान्यतो भूषणानि सन्त्येवेति भावः । 'न
च' इति तु युक्तः पाठः । आस्थासक्तिः । न । उचितेति शेषः । तत्कार्यस्य नायकवश-
त्वसंपादनादेः साहजिकवपुर्गुणेनैव संपादनादिति भावः । इदमेव द्रढयति-वपुः कान्त्यैव
 
Si Gurgeshwari Digital Fundarion