This page has been fully proofread once and needs a second look.

पूर्वनायिकासखीं प्रति नायको वक्ति--
 
निहितायामस्यामपि सैवैका मनसि मे स्फुरति ।
रेखान्तरोपधानात् पत्त्राक्षरराजिरिव दयिता ॥ ३३७ ॥
 
निहितायामिति । अस्यां पुरोवर्तिन्यां मनसि निहितायामपि सैव त्वन्नायिकैवैका
दयिता मे मनसि स्फुरति । एवं च तस्यामेव ममासक्तिरिति व्यज्यते । रेखान्तरविधा-
नात् पत्त्ररूपाक्षरपङ्क्तिरिव । एवं च स्थिरत्वं ध्वन्यते ॥
 
कयाचन
किरिव । एवं च स्थिरत्वं ध्वन्यते ॥
 
कयाचन किं
ञ्चिदवलोकितः कश्चित्तां सपरिहासं वक्ति--
 
निधिनिक्षेपस्थानस्योपरि चिह्नार्थमिव लता निहिता ।
लोभयति तव तनूदरि जघनतटादुपरि रोमाली ॥ ३३८ ॥
 
निधीति । निधेः । 'निधिर्ना शेवधिर्भेदाः' इत्यमरः । निक्षेपस्थानं तदुपरि चिह्ना-
र्थम् । विस्मरणाभावायेति भावः । निहिता लतेव । हे तनूदरि । एवं च निधिनिक्षेप-
योग्यत्वं ध्वन्यते । तव जघनस्य तटात्प्रान्तात् । तटपदेन लतारोपणयोग्यत्वं ध्वन्यते ।
रोमराजिर्लोभयति। निघिधिस्थानस्थिताया लोभजनकत्वौचित्यमिति भावः । एवं च जघनाघोधो
निधिनिक्षेपस्थानमस्तीति परिहासो व्यज्यते । यद्वा सगर्भासीति । यत्र हि निधिः
स्थाप्यते तच्चिह्नार्थेथं लतादि क्रियत इति लौकिकम् ॥
 
तस्याः सखी तं वक्ति--
 
निहितार्धलोचनायास्त्वं तस्या हरसि हृदयपर्यन्तम् ।
न सुभग समुचितमीदृशमङ्गुलिदाने भुजं गिलसि ॥ ३३९ ॥
 
निहितेति । निहितार्धलोचनायास्त्वयि किंचित्कटाक्षं कुर्वाणायास्तस्यास्त्वं हृदयपर्य-
न्तं हरसि । कथमन्यथैतादृशं वचनमिति भावः । सुभग । एवं चान्यादृशवचनानौचित्यं
व्यज्यते । इँदृशं समुचितं न । यदङ्गुलिदाने भुजं गिलसि ॥
 
बहवस्तरुणा ममापेक्षां कुर्वन्तीति गर्वशालिनीं कांचित्काचिद्वक्ति--
 
नीत्वागारं रजनीजागरमेकं च सादरं दत्त्वा ।
अचिरेण कैर्न तरुणैर्दुर्गापत्त्रीव मुक्कातासि ॥ ३४० ॥
 
नीत्वेति । आगारं गृहं नीला । एवं चान्यगृहगमनेन लघुत्वमावेद्यते । आदरसहि-
तमेकं न बहुरात्रिजागरम् । दत्वा तरुणैर्दुर्गापत्त्रीव शीघ्रं कैर्न मुक्तासि । एवं चैकदि-
नोत्तरमेव सर्वेषां न तवासक्तिरिति व्यज्यते । तेन च त्वं गुणरहितैव । एवं चैकमात्रास-
क्तिमत्येव समीचीनेति ध्वन्यते । नवरात्रे बिल्वशाखामष्टम्यामानीय रात्रौ संपूज्य जा-
गरादि विधाय नवम्यां परित्यज्यत इति देशविशेषरीतिः ॥