2023-03-16 14:59:32 by Pathan Vali Khan
This page has been fully proofread once and needs a second look.
कस्यचिदासक्त्या गर्वितां कांचित्काचिदन्योक्त्या वक्ति--
न गुणे न लक्षणेऽपि च वयसि च रूपे च नादरो विहितः ।
त्वयि सौरमेभेयि घण्टा कपिलापुत्रीति बद्धेयम् ॥ ३३३ ॥
नेति । गुणे बहुदोग्धृत्वादौ कलाकौशले च । लक्षणे सामुद्रिकोक्तादौ । तारुण्ये ।
रूपे शुक्लादौ सौन्दर्ये च । आदरो न विहितः । सौरभेयि, त्वयि कपिलायाः पुत्रीति
हेतोरियं घण्टा निबद्धा । एवं च त्वन्मातुर्गुणवत्त्वादिना प्रसिद्ध्या तज्जन्यत्वमात्रेणैवं वृत्त-
मिति किं गर्वमावहसीति व्यज्यते ॥
निष्कारणमेव कलहादिकं भवति भवद्गेहे किमिदमिति वादिनं कश्चिद्वक्ति--
निष्कारणापराधं निष्कारणकलहरोषपरितोषम् ।
सामान्यमरणजीवनसुखदुःखं जयतिदांदाम्पत्यम् ॥ ३३४ ॥
निरिति । कारणं विनैवापराधो यस्य । कारणं विनैव कलहक्रोधसंतोषा यस्य ।
साधारणं मरणं जीवनं सुखं दुःखं यस्य । जायापतिभावोदांदाम्पत्यं सर्वोत्कर्षेण वर्तते ।
एवं चैतादृग्यन्न भवति दांपत्यं तदपकृष्टमिति व्यज्यते । तेन च खस्मिन्नाधिक्यम् ।
एवं चातिशयितप्रेमवत्तया क्षणक्षण एवापराधसंभावना तद्विलयश्चेति ध्वन्यते । सा-
मान्यमित्यादिनैकात्म्यमभिव्यज्यते ॥
कश्चिदेकदा प्राप्तसङ्गां तदुत्तरं च किंचिन्निमित्तविच्युतसङ्गां कांचिद्वक्ति--
न प्राप्यसे कराभ्यां हृदयान्नापैषि वितनुषे बाधाम् ।
त्वं मम भग्नावस्थितकुसुमायुधविशिखफलिकेव ॥ ३३५ ॥
नेति । भग्ना सत्यवस्थिता या मदनशराप्ग्रलोहशलाका तद्वत्त्वं हस्तगता न भवसि ।
हृदयान्न निःसरसि । पीडां च विस्तारयसि । भग्नावस्थितेत्यनेन करग्रहोद्यमे भीतिरा-
वेद्यते । कुसुमायुधपदेन कोमलाङ्गीत्वं तेन चासक्तियोग्यत्वं ध्वन्यते । विशिखफलि-
केत्यनेन तीक्ष्णप्रतापशालित्वं व्यज्यते । एवं चलत्वदप्राप्त्याहमतिदुःखित इति ध्वन्यते ॥
ममाज्ञाकारी मन्नायक इति वादिनीं कांचित्काचिद्वक्ति--
नाथेति परुषमुचितं प्रियेति दासेत्यनुग्रहो यत्र ।
तद्दांपत्यमितोऽन्यन्नारी रज्जुः पशुः पुरुषः ॥ ३३६ ॥
नाथेति । यत्र नाथेति संबोधनमतिनिष्ठुरम् । प्रियेत्युचितम् । यथा कस्यचिदागतस्य
किंचिदुचितं क्रियते तथा प्रियेति संबोधनमुचितमित्यर्थः । दासेत्यनुग्रहः । आत्मत्वे-
नाङ्गीकार इत्यर्थः । एवं चाभिन्नप्रायतया नोपचारादिर्यत्रेति भावः । तद्दांपत्यं जायापति-
भावः । इतोऽन्यन्नारी रज्जुः । एवं चाकर्षणयोग्यत्वं ध्वन्यते । पुरुषः पशुः । एवं च
रसानभिज्ञत्वं ध्वन्यते । यद्वा नायकस्येयमुक्तिः ॥
न गुणे न लक्षणेऽपि च वयसि च रूपे च नादरो विहितः ।
त्वयि सौर
नेति । गुणे बहुदोग्धृत्वादौ कलाकौशले च । लक्षणे सामुद्रिकोक्तादौ । तारुण्ये ।
रूपे शुक्लादौ सौन्दर्ये च । आदरो न विहितः । सौरभेयि, त्वयि कपिलायाः पुत्रीति
हेतोरियं घण्टा निबद्धा । एवं च त्वन्मातुर्गुणवत्त्वादिना प्रसिद्ध्या तज्जन्यत्वमात्रेणैवं वृत्त-
मिति किं गर्वमावहसीति व्यज्यते ॥
निष्कारणमेव कलहादिकं भवति भवद्गेहे किमिदमिति वादिनं कश्चिद्वक्ति--
निष्कारणापराधं निष्कारणकलहरोषपरितोषम् ।
सामान्यमरणजीवनसुखदुःखं जयति
निरिति । कारणं विनैवापराधो यस्य । कारणं विनैव कलहक्रोधसंतोषा यस्य ।
साधारणं मरणं जीवनं सुखं दुःखं यस्य । जायापतिभावो
एवं चैतादृग्यन्न भवति दांपत्यं तदपकृष्टमिति व्यज्यते । तेन च खस्मिन्नाधिक्यम् ।
एवं चातिशयितप्रेमवत्तया क्षणक्षण एवापराधसंभावना तद्विलयश्चेति ध्वन्यते । सा-
मान्यमित्यादिनैकात्म्यमभिव्यज्यते ॥
कश्चिदेकदा प्राप्तसङ्गां तदुत्तरं च किंचिन्निमित्तविच्युतसङ्गां कांचिद्वक्ति--
न प्राप्यसे कराभ्यां हृदयान्नापैषि वितनुषे बाधाम् ।
त्वं मम भग्नावस्थितकुसुमायुधविशिखफलिकेव ॥ ३३५ ॥
नेति । भग्ना सत्यवस्थिता या मदनशरा
हृदयान्न निःसरसि । पीडां च विस्तारयसि । भग्नावस्थितेत्यनेन करग्रहोद्यमे भीतिरा-
वेद्यते । कुसुमायुधपदेन कोमलाङ्गीत्वं तेन चासक्तियोग्यत्वं ध्वन्यते । विशिखफलि-
केत्यनेन तीक्ष्णप्रतापशालित्वं व्यज्यते । एवं च