This page has not been fully proofread.

काव्यमाला ।
 
नायिकादुश्चरितं विज्ञाय सखी वक्ति-
नाहं वदामि सुतनु त्वमशीला वा प्रचण्डचरिता वा ।
 
प्रेमस्वभावसुलभं भयमुदयति मम तु हृदयस्य ॥ ३३० ॥
 
नाहमिति । हे सुतनु, त्वं शीलशून्या प्रचण्डचरिता वेति नाहं वदामि । तु पुनर्मम
हृदयस्य प्रीतिवभावसुलभं भयमुदेति । एवं च कदाचित्केनचिदितीदं ज्ञातं चेत्तदा कथं
भविष्यतीति त्वद्विषयकप्रीतिमत्तया मम तु भयमुत्पद्यत इति भावः । एवं च प्रीत्यभा-
वेऽन्यस्य जाताप्यसमीचीनता न दुःखदेति ध्वन्यते । तेन चैवं न विधेयमिति ॥
दूती कयाचन संगमयितुं कंचन नायकं वक्ति-
-
 
न निरूपितोऽसि सख्या नियतं नेत्रत्रिभागमात्रेण ।
 
हारयति येन कुसुमं विमुखे त्वयि कण्ठ इव देवे ॥ ३३१ ॥
 
नेति । सख्या नायिकया नेत्रत्रिभागमात्रेण कटाक्षमात्रेण न निरूपितोऽसि न विलो-
कितोऽसि । एवं चान्तःकरणेन सा त्वय्यत्यन्तमनुरागभागिनी संवृत्तेति ध्वन्यते । तेन
च दैवादवलोकितोऽहं तयेति त्वया सर्वात्मना न मन्तव्यमिति तदनुरागमेव विवृणोति ।
येन कारणेन देव इव त्वयि विमुखे कृतपरावृत्तौ सहोपमेयम् । एवं च त्वद्वैमुख्ये देव-
वैमुख्यं जातमिति भावः । एवं च त्वद्वैमुख्यसंपादनद्वारैव देवप्रातिकूल्यमिति देवाधि-
कस्त्वं तस्या इति ध्वन्यते । कण्ठे । स्थितमिति भावः । कुसुमं हारयति दूरीकारयति ।
एवं च त्वत्पराङ्मुखताविचारसमयसंजात विरहवशात्परित्यतहारस्य दैवादवस्थितैककुसु-
मस्य न स्वतो दूरीकरणमसामर्थ्यात्, अतोऽतिविरहक्षीणतातिशयवत्तयातिदूयमाना नोपे-
क्षणीयेयं त्वयेति ध्वन्यते । एवं च मुखपरावृत्तिमात्रादेवमवस्था तस्याः का वाच्या
दिवसपरिकलनायामिति कुसुमं कण्ठे हारत्वेन करोति । एवं च त्वत्परावृत्तिसमयमेवं
कार्ये तस्याः संवृत्तमित्यावेद्यत इत्यप्याहुः ॥
 
कथमनया त्वं ताडित इति वादिनं कश्चित्समाधत्ते-
नखदशन मुष्टिपातैरदयैरालिङ्गनैश्च सुभगस्य ।
 
अपराधं शंसन्त्यः शान्ति रचयन्ति रागिण्यः ॥ ३३२ ॥
 
नखेति । अत्र पातशब्देन संयोगो लक्ष्यते । एवं च
 
दन्तनखक्षताभिपातैरित्यर्थः ।
 
अदयैः । गाढैरित्यर्थः । आलिङ्गनैः । सुभगस्य, न त्वभाग्यस्य । अपराधम् । एवं चे-
कापराध एतादृशम्, किं पुनर्बह्नपराध इति भावः । शंसन्त्यः । एवं च न वास्तवापराध-
स्थापन मिति भावः । अनुरागवत्यः । एवं चान्यासामन्यादृशी रीतिरिति भावः ।
शान्ति क्रोधोपशमं रचयन्ति । एवं च नायककर्तृककोपपरिहारापेक्षापि नेति भावः ।
एवं च यस्यैवात्यन्तमासक्ता नायिका तस्यैवैतादृशी रीतिः, नान्यस्येति व्यज्यते ॥
 
Sri Gurgeshwari Digital Foundation