This page has been fully proofread once and needs a second look.

सर्वभार्यासु समतया वर्तितव्यमिति कश्चित्कं कञ्चिदुपदिशति--
 
नीता लघिमानमियं तस्यां गरिमाणमधिकमर्पयसि ।
भार इव विषमभार्यः सुदुर्वहो भवति गृहवासः ॥ ३२
 
नीवेतेति । इयं लघुतां प्रापिता तस्यामधिकं गौरवं करोषि । विषमस्त्रीको विषमे
परस्परविरुद्धे स्त्रियौ यत्र । विषमभृधृतश्च भार इव । गृहवासः सुदुर्वहः सुतरां दुर्वहः ।
'अर्पयति' इति पाठे लाघवं नीतेयं तस्यामतिगौरवं करोति । एवं च सा लघिमानं
नीतैतस्यां गरिमाणमर्पयति । एवमेका गरिमाणं नीतान्यस्यां लाघवमापादयतीति भार
इव सुदुर्वहो विषमभार्यो गृहवास इति कश्चित्सखायं वक्ति । एवं च समतासंपादन-
मशक्यमिति भावः ॥
 
अकस्मादेवानेनागत्य कथमिदमकारीति वादिनीं नायिकां सखी वक्ति--
 
न च दूती न च याच्याञा न चाञ्जलिर्न च कटाक्षविक्षेपः ।
सौभाग्यमानिनां सखि कचग्रहः प्रथममभियोगः ॥ ३२६ ॥
 
न चेति । सुभगाभिमानशालिनायकानां नायिकास्वाधीनतायां न दूतीप्रेषणाद्यपेक्षितम्,
किं तु केशग्रह एव प्रथमं वश्यतासंपादनोपाय इति भावः ॥
 
मन्मथावस्थायां न किंकिञ्चित् परिस्फुरतीति कश्चिद्वक्ति--
 
निशि विषमकुसुमविशिख प्रेरितयोर्मोमौनलब्धरतिरसयोः ।
मानस्तथैव विलसति दंदम्पत्योरशिथिलग्रन्थिः ॥ ३२७ ॥
 
निशीति । विषमत्वेन दुःसहत्वं ध्वन्यते ॥
 
वारवनितासंगतिरनुचितेति कश्चित्कं कञ्चिदुपदिशति---
 
निजगात्रनिर्विशेषस्थापितमपि सारमखिलमादाय ।
निर्मोकं च भुजंगी मुञ्चति पुरुषं च वारवधूः ॥ ३२८ ॥
 
निजेति । स्वशरीरसमतया स्थापितम् । एवं चातिप्रियत्वमावेद्यते । समग्रं सारभूतं
वस्तु गृहीत्वा कञ्चुकं सर्पिणी पुरुषं वाराङ्गना त्यजति । कञ्चुकवन्निःसारतां विधाय त्य-
जति वेश्या, अतो न तत्संगतिरुचितेति व्यज्यते ॥
 
सखी नायिकां वक्ति--
 
नृत्यश्रमघर्मार्द्रं मुञ्चसि कृच्छ्रेण कञ्ञ्जचुकं सुतनु ।
मकरन्दोदकजुष्टं मदनधनुर्वल्लिरिव चोलम् ॥ ३२९ ॥
 
नृत्येति । नर्तनश्रमेण यः स्वेदस्तेनार्द्रेरं कञ्चुकं क्लेशेन त्यजसि । पुष्परसप्रादुर्भा-
चाक्रान्तं चोलं मदनधनुर्वल्लिरिव । एवं च सुरतश्रमे किं त्वया विधेयमिति परिहासो
व्यज्यते ॥