This page has not been fully proofread.

आर्यासप्तशती ।
 
सर्वभार्यासु समतया वर्तितव्यमिति कश्चित्कंचिदुपदिशति-
-
 
नीता लघिमानमियं तस्यां गरिमाणमधिकमर्पयसि ।
 

भार इव विषमभार्यः सुदुर्वहो भवति गृहवासः ॥ ३२९ ॥
 

 
नीवेति । इयं लघुतां प्रापिता तस्यामधिकं गौरवं करोषि । विषमस्त्रीको विषमे

परस्परविरुद्धे स्त्रियौ यत्र । विषमभृतश्च भार इव । गृहवासः सुदुर्वहः सुतरां दुर्वहः ।

'अर्पयति' इति पाठे लाघवं नीतेयं तस्यामतिगौरवं करोति । एवं च सा लघिमानं

नीतैतस्यां गरिमाणमर्पयति । एवमेका गरिमाणं नीतान्यस्यां लाघवमापादयतीति भार

इव सुदुर्वहो विषमभार्यो गृहवास इति कश्चित्सखायं वक्ति । एवं च समतासंपादन-

मशक्यमिति भावः ॥
 

 
अकस्मादेवानेनागत्य कथमिदमकारीति वादिनीं नायिकां सखी वक्ति-
-
 
न च दूती न च याच्या न चाञ्जलिर्न च कटाक्षविक्षेपः ।

सौभाग्यमानिनां सखि कचग्रहः प्रथममभियोगः ॥ ३२६ ॥
 

 
न चेति । सुभगाभिमानशालिनायकानां नायिकास्वाधीनतायां न दूतीप्रेषणाद्यपेक्षितम्,

किं तु केशग्रह एव प्रथमं वश्यतासंपादनोपाय इति भावः ॥

 
मन्मथावस्थायां न किंचित्परिस्फुरतीति कश्चिद्वक्ति-
-
 
निशि विषमकुसुमविशिख प्रेरितयोर्मोनलब्धरतिरसयोः ।

मानस्तथैव विलसति दंपत्योरशिथिलग्रन्थिः ॥ ३२७ ॥

 
निशीति । विषमत्वेन दुःसहत्वं ध्वन्यते ॥

 
वारवनितासंगतिरनुचितेति कश्चित्कंचिदुपदिशति-
-
 
--
 
निजगात्रनिर्विशेषस्थापितमपि सारमखिलमादाय ।
 

निर्मोकं च भुजंगी मुञ्चति पुरुषं च वारवधूः ॥ ३२८ ॥

 
निजेति । स्वशरीरसमतया स्थापितम् । एवं चातिप्रियत्वमावेद्यते । समग्रं सारभूतं

वस्तु गृहीत्वा कचुकं सर्पिणी पुरुषं वाराङ्गना त्यजति । कञ्चुकवन्निःसारतां विधाय त्य-

जति वेश्या, अतो न तत्संगतिरुचितेति व्यज्यते ॥
 

 
सखी नायिकां वक्ति-
-
 
नृत्यश्रमघर्मा मुञ्चसि कृच्छ्रेण कञ्ञ्जकं सुतनु ।
 

मकरन्दोदकजुष्टं मदनधनुर्वल्लिरिव चोलम् ॥ ३२९ ॥
 

 
नृत्येति । नर्तनश्रमेण यः स्वेदस्तेनार्द्रे कञ्चुकं क्लेशेन त्यजसि । पुष्परसप्रादुर्भा

चाक्रान्तं चोलं मदनधनुर्वल्लिरिव । एवं च सुरतश्रमे किं त्वया विधेयमिति परिहासो

व्यज्यते ॥
 
विधैवमिति परि
 
आ० स० ११
 
Sri Gargeshwari Digital Foundation