This page has been fully proofread once and needs a second look.

गुणेष्वत्यन्तं यत्नो विधेय इति कश्चित्कं कञ्चिदुपदिशति--
 
निर्गुण इति मृत इति च द्वावेकार्थाभिधायिनौ विद्धि ।
पश्य धनुर्गुणशून्यं निर्जीवं तदिह शंसन्ति ॥ ३२१ ॥
 
निर्गुण इति । गुणाश्चातुर्यादयः । एकार्थप्रतिपादकौ । अमुमेवार्थमर्थान्तरन्या सेन
दृढयति–गुणश्शून्यम् । 'मौवींर्वी ज्या शिञ्जिनी गुणः' । निर्जीवं निर्गता जीवा यस्मात्तम् ।
'जीवा ज्या शिञ्जिनीत्यपि' इत्यभिधानात् । यस्माद्वदन्ति । एवं च निर्गुणजीवनापे-
क्षया मरणमेव सम्यगिति द्योत्यते ॥
 
नायिका नायकचित्तं व्याक्षिपति--
 
निजसूक्ष्मसूत्रलम्बी विलोचनं तरुण ते क्षणं हरतु ।
अयमुद्गृहीतबडिशः कर्कट इव मर्कटः पुरतः ॥ ३२२ ॥
 
निजेति । तरुणेत्यनेन स्वतो दृढत्वेऽप्येतादृशचित्तव्याक्षेपेणातिदार्ढ्यं भावीति व्य-
ज्यते । 'बडिशं मत्स्यवेधनम्' इत्यमरः । कर्कटः । 'स्यात्कुलीर: कर्कटकः' इत्यमरः ।
मर्कटो लूता। 'लूता स्त्री तन्तुवायोर्णनाभमर्कटकाः समाः' इत्यमरः । यद्वात्रागतं स्थितं
मयेति वादिनं नायकं नायिका वक्ति । एवं च सूक्ष्मत्वेन त्रुटनार्हत्वेऽपि तदभावान्न त्व-
त्संचरणमिति व्यज्यते। अथवा केनाप्यत्र नागम्यत इति संकेतस्थलमिदमिति ध्वन्यते ॥
 
ग्रामीणवसतिशालितयेयं न तथा गुणशालिनीति विभावयन्तं कंचन नायिका-
सखी वक्ति--
 
नागर गीतिरिवासौ ग्रामस्थित्यापि भूषिता सुतनुः ।
कस्तूरी न मृगोदरवासवशाद्वित्स्रतामेति ॥ ३२३ ॥
 
नागरेति । हे नागर, असौ सुतनुर्गीतिरिव । ग्रामो नगरादिभिन्नः । पक्षे 'ग्रामः स्वर-
समूहः स्यान्मूर्छनादेः समाश्रयः' इति लक्षणलक्षितः । तत्र स्थित्यापि । विस्रतां दौर्ग-
न्ध्यम् । एवं चेयमत्यन्तलक्षणशालिनी, अतस्त्वमस्यामासक्किंतिं कुर्विति व्यज्यते ॥
 
कुरबककुसुमशय्यायां सुरतं विधायागतां नायिकां सखी वक्ति--
 
नखलिखितस्तनि कुरबकमयपृष्ठे भूमिळुलुलितविरसाङ्गि ।
हृदयविदारणनिःसृतकुसुमास्त्रशरेव हरसि मनः ॥ ३२४ ॥
 
नखेति । कुरबकप्रचुरपृष्ठे । भूमौ लुलितानि विरसान्यङ्गानि यस्यास्तत्संबुद्धिः ।
निःसृताः । पृष्ठमार्गेणेति भावः । नैतानि पृष्ठलग्नानि कुरबककुसुमानि, किं तु हृदय-
लग्नाः पृष्ठविनिर्गता मन्मथबाणा इति भावः । एवं च मां प्रत्येतद्गोपनमनुचितमिति
द्योत्यते ॥