This page has not been fully proofread.

काव्यमाला ।
 
गुणेष्वत्यन्तं यत्नो विधेय इति कश्चित्कंचिदुपदिशति-
-
 
निर्गुण इति मृत इति च द्वावेकार्थाभिधायिनौ विद्धि ।

पश्य धनुर्गुणशून्यं निर्जीवं तदिह शंसन्ति ॥ ३२१ ॥
 

 

 
निर्गुण इति । गुणाश्चातुर्यादयः । एकार्थप्रतिपादकौ । अमुमेवार्थमर्थान्तरन्या सेन

दृढयति–गुणश्शून्यम् । 'मौवीं ज्या शिञ्जिनी गुणः' । निर्जीवं निर्गता जीवा यस्मात्तम् ।

'जीवा ज्या शिञ्जिनीयपि' इत्यभिधानात् । यस्माद्वदन्ति । एवं च निर्गुणजीवनापे-

क्षया मरणमेव सम्यगिति द्योत्यते ॥
 

 
नायिका नायकचित्तं व्याक्षिपति-
-
 
निजसूक्ष्मसूत्रलम्बी विलोचनं तरुण ते क्षणं हरतु ।

अयमुद्गृहीतबडिशः कर्कट इव मर्कटः पुरतः ॥ ३२२ ॥
 

 
निजेति । तरुणेत्यनेन स्वतो दृढत्वेऽप्येतादृशचित्तव्याक्षेपेणातिदार्ढ्य भावीति व्य-

ज्यते । 'बडिशं मत्स्यवेधनम्' इत्यमरः । कर्कटः । 'स्यात्कुलीर: कर्कटकः' इत्यमरः ।

मर्कटो लता। 'लता स्त्री तन्तुवायोर्णनाभमर्कटकाः समाः' इत्यमरः । यद्वात्रागतं स्थितं

मयेति वादिनं नायकं नायिका वक्ति । एवं च सूक्ष्मत्वेन त्रुटनार्हत्वेऽपि तदभावान्न व

त्संचरणमिति व्यज्यते।अथवा केनाप्यत्र नागम्यत इति संकेतस्थलमिदमिति ध्वन्यते ॥

 
ग्रामीणवसतिशालितयेयं न तथा गुणशालिनीति विभावयन्तं कंचन नायिका-

सखी वक्ति-
-
 
नागर गीतिरिवासौ ग्रामस्थित्यापि भूषिता सुतनुः ।

कस्तूरी न मृगोदरवासवशाद्वित्रतामेति ॥ ३२३ ॥
 

 
नागरेति । हे नागर, असौ सुतनुगतिरिव । ग्रामो नगरादिभिन्नः । पक्षे 'ग्रामः स्वर-

समूहः स्यान्मूर्छनादेः समाश्रयः' इति लक्षणलक्षितः । तत्र स्थित्यापि । विस्रतां दौर्ग-

न्ध्यम् । एवं चेयमत्यन्तलक्षणशालिनी, अतस्त्वमस्यामासक्किं कुर्विति व्यज्यते ॥

 
कुरबककुसुमशय्यायां सुरतं विधायागतां नायिकां सखी वक्ति-
-
 
नखलिखितस्तनि कुरबकमयपृष्ठे भूमिळुलितविरसाङ्गि ।

हृदयविदारणनिःसृतकुसुमास्त्रशरेव हरसि मनः ॥ ३२४ ॥
 

 
नखेति । कुरबकप्रचुरपृष्ठे । भूमौ लुलितानि विरसान्यङ्गानि यस्यास्तत्संबुद्धिः ।

निःसृताः । पृष्ठमार्गेणेति भावः । नैतानि पृष्ठलग्नानि कुरबककुसुमानि, किं तु हृदय-

लग्नाः पृष्ठविनिर्गता मन्मथबाणा इति भावः । एवं च मां प्रत्येतद्गोपनमनुचितमिति
 
येतो मचि
 

द्योत्यते ॥
 
Sri Gurgeshwari Digital Foundation