This page has not been fully proofread.

आर्यासप्तशती ।
 
११५
 
माणं प्रतिष्ठां च । सज्जना भूषणसंपादनाः । 'कल्पनासज्जने समे' इत्यमरः । पक्षे
समीचीनजनाः ॥
 
काचित्कस्यचित्प्रेमाणं स्तौति -
 
नोत्तपते न स्नेहं हरति न निर्वाति न मलिनो भवति ।
तस्योज्ज्वलो निशि निशि प्रेमा रत्नप्रदीप इव ॥ ३१७ ॥
 
नोत्तपत इति । नोत्तपते नाधिकः । सम एवेत्यर्थः । पक्षे न दाहकः । न प्रीतिना-
शकः । पक्षे न तैलनाशकश्च । न नश्यति । न मलिनम् । दुःखसंपादकमित्यर्थः । पक्षे
न कज्जलं वमति । उज्ज्वलो मालिन्यशून्यः । अत्र मालिन्यजनकत्वाभावप्रतिपाद-
नेनैव वैमल्यार्थसिद्धावेतत्कथनं न तथोचितमित्याभाति । निशीत्येतावता दिवा स्नेहा-
प्रदर्शनेन लोकगोपनादिचातुर्यवत्तया चिरकालीनसंगतिनिर्वाहकत्वं व्यज्यते ॥
 
काचित्कस्मिंश्चित्खासक्ति कांचिद्वक्ति-
निहितान्निहितानुज्झति नियतं मम पार्थिवानपि प्रेम ।
भ्रामं भ्रामं तिष्ठति तत्रैव कुलालचक्रमिव ॥ ३१८ ॥
 
निहितानिति । निहितान्सख्यादिप्ररोचनया प्रेमारूढान्पार्थिवानपि भूपतीनपि । एवं
चासक्त्यर्हत्वं व्यज्यते । पक्षे पृथ्वी विकारान्घटादीन् । मम प्रेम नियतम् । एवं च
नान्यथाभाव आशङ्कनीय इति भावः । त्यजति । भ्रान्ला कुलालचक्रमिव तस्मिन्नेव
तिष्ठति ॥
 
कश्चिन्नायिकासखीं वक्ति-
निर्भरमपि संभुक्तं दृष्ट्या प्रातः पिबन्न तृप्यामि ।
 
जघनमनंशुकमस्याः कोक इवाशिशिरकरबिम्बम् ॥ ३१९ ॥
निर्भरमिति । अत्यन्तं संभुक्तमपि विगतवसनमस्या जघनं सूर्यबिम्बं कोक इव
दृष्टया प्रातः । एवं च तथाविधरतविरतावप्येवं गतिस्तत्र दिनक्षणवृद्धौ का वाच्येति
व्यज्यते । सादरावलोकनं कुर्वन्न तृप्यामि ॥
कश्चिद्वयस्यं वक्ति-
-
 
निविडघटितोरुयुगलां श्वासोत्तब्धस्तनार्पित व्यजनाम् ।
 
तां स्निग्धकुपितदृष्टिं स्मरामि रतनिःसहां सुतनुम् ॥ ३२० ॥
निबिडेति । अत्यन्तसंघटितोरुद्वयाम् । सुरतक्लेशादिति भावः । निःश्वासस्तब्ध स्तन-
दत्तव्यजनाम् । खेदापनोदार्थ गृहीतव्यजनस्य चालनासामर्थ्यादिति भावः । स्निग्धलं च
सौख्यात्कुपितत्वं च क्लेशवशादिति भावः । यद्वा रतनि:सहाङ्गत्वाद्वसनाग्रहादूरुघटनं
हाङ्गत्वासनाप्रहादुरुषट
प्रथमगृहीतव्यजनेन स्तनपिधानमिति भावः ॥
 
Sri Gargeshwari Digital Foundation