This page has not been fully proofread.

११४
 
काव्यमाला ।
 
-
 
दृष्टान्तमाह - हरेत्यादि । ग्रथितपदेन निःसारणानर्हत्वं ध्वन्यते । एवमन्यासां का वा
तेंति ध्वन्यते ॥
 
काचित्कंचिद्वक्ति-
नागरभोगानुमितस्ववधूसौन्दर्यगर्वतरलस्य ।
 
निपतति पदं न भूमौ ज्ञातिपुरस्तन्तुवायस्य ॥ ३१२ ॥
नागरेति । नगरसंबन्धी । एवं च चातुर्यवत्त्वं ध्वन्यते । तेन च सुरूपाङ्गनासङ्गका-
रिलम् । तरलस्य चञ्चलस्य कुविन्दस्य स्वकीयज्ञायग्रे भूमौ पदं न निपतति । गर्ववशा-
दिति भावः । एवं चातिमूर्खत्वं व्यज्यते । एवं चैतादृशजातीयानां चतुरपुरुषेण स्वाङ्गना-
भोगे क्रियमाणे नेर्ष्या संजायते, अतस्त्वया सुखेनात्रागन्तव्यमिति ध्वन्यते ॥
एतादृशेन सह संगतिर्न कार्येति सखी वक्ति-
निपतति चरणे कोणे प्रविश्य निशि यन्निरीक्षते कस्तत् ।
 
सखि स खलु लोकपुरतः खलः स्वगरिमाणमुद्भिरति ॥ ३१३ ॥
निपततीति । कोणे प्रविश्य । एवं चागणनीयत्वं व्यज्यते । रात्रौ चरणे प्रणमति
तत्को निरीक्षते । न कोऽपीति भावः । स्वगरिमाणमहमेतादृशो गुणवान्य दियमत्यन्ता-
सक्ता मयीत्यादि । यद्वा नायिकोक्तिरियम् ॥
 
समीचीनस्य कोपो न भवति । भवति चेत्तदानर्थावह एव स इति कश्चिद्वक्ति -
न विमोचयितु शक्यः क्षमां महान्मोचितो यदि कथंचित् ।
मन्दरगिरिरिव गरलं निवर्तते ननु समुत्थाप्य ॥ ३१४ ॥
 
नेति । महाश्रेष्ठः । पक्षे महापरिमाणशाली । क्षमां शान्ति भूमिं च । ननु नि
चितम् । 'न तु' इति पाठे नञि काकुः । एवं च महतः कोपो नोत्पादनीय इति
व्यज्यते ॥
 
किंचित्समीचीनावलम्बने दुष्प्रभुसेवा न विधेयेति कश्चिदुपदिशति-
नियतैः पदैनिषेव्यं स्खलितेऽनर्थावहं समाश्रयति ।
 
संभवदन्यगतिः कः संक्रमकाष्ठं दुरीशं च ॥ ३१५ ॥
नियतैरिति । नियतैः पदैर्व्यवहारमार्गैश्चरणविन्यासैश्च । स्खलिते भ्रमे चरणच्युतौ
वा । गतिराश्रयो गमनं च । संक्रमकाष्ठं नद्यादौ पारगमनायोभयतीरोपर्येकदारु स्था-
प्यते तत् ॥
 
समीचीनजनं विना कवीनां न शोभा भवतीति कश्चिद्वक्ति-
निजपदगतिगुणरञ्जितजगतां करिणां च सत्कवीनां च ।
वहतामपि महिमानं शोभायै सज्जना एव ॥ ३१६ ॥
निजपदेति । चरणगतिः सुप्तिङन्तज्ञानं च । तद्रूपो यो गुणः । महिमानं
 
VIDE
 
महत्परि-
Sri Gurgeshuri Digital Fiunitarion